SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ संसारकत्व श्रीतवार्थ हरि० 9 अध्या० भावने द्वे द्वे लक्षे तिर्यङ्नारकदेवेषु प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुजेषु चतुर्दश लक्षा, एवं चतुरशीतिर्लक्षयोनीनां चतुरशीतियोनिप्रमु| खानि शतसहस्राणि, प्रमुखशब्दः प्रधानवचनः, चतुरशीतियोनिप्रधानानि शतसहस्राणि तेषु, नान्येष्वित्यर्थः, रागो मायालोभौ द्वेषः क्रोधमानौ मिथ्यात्वहास्यादिर्मोहः एभिरभिभूतैर्जन्मवद्भिः अनिवृत्ता विषयतृष्णा येषां ते तथा तैः अविच्छिन्नविषयतर्फः अन्योऽन्यं परस्परं भक्षणं पृथुरोमादीनामिव तथा वधो-मारणं बन्धः-संयमनं अभियोगः-अभ्याख्यानं आक्रोशः अप्रियवचनं | एमिरन्योऽन्यभक्षणादिमिर्जनितानि तीव्राणि प्रकृष्टानि दुःखानि प्राप्यन्ते-अनुभूयन्ते, अहो इति विस्मये, न खल्वेवंविधं दुःख|भाजनमन्यदस्ति यादृशः संसारः, द्वन्द्वा वधबंधदंशमशकशीतोष्णादयः एत एवारामो यत्र संसारे, आरामो हि नानाजातीयतरुसमूहः, आराम इवारामो, द्वन्द्वानां संघातः, कष्ट-कच्छं दुःखं-गहनं स्वरूपं-स्वभावः यस्य इत्येवं चिंतयेत् , ततः संसारभयादुद्विग्रस्य जातारतेः सांसारिकसुखजिहीर्षालक्षणो भवति निर्वेद इत्येषा संसारानुप्रेक्षा 3 // - एकत्वभावनास्वरूपामिधानायाह-एक एवाहमित्यादि (110-17) एक एवाहं, न जातुचित् ससहायो जाये म्रिये वा| जननं मरणं वाऽनुभवामि इति, यमलकयोरपि क्रमेणेच निस्सरणं, यच्च जन्मनि दुःखं मरणे वा तदेक एवाहमनुभवामीत्यर्थः, न तस्य मदीयस्याशर्मणोऽनुभवे कश्चित् सहायोऽस्ति, ततश्च सहजन्मानः सहमरणाश्च निगोदजीवा अपि न व्यभिचारयत्यमुम|र्थमेक एवाहं जाये एक एवाहं निये इति, एतदेव भाष्येण दर्शयनि-न मे कश्चित् स्वजनसंज्ञः परजनसंज्ञो वा व्याधिजरामरणादीनि दुःखानि अपहरति मत्तः सकलं दुःखमाक्षिप्यात्मनि निधत्त इति, एतन्न, प्रत्यंशो-विभागो वंटउ न च संभूयः स्वजनाः परजना वा मयि दुःखमुत्पन्नं विभाजयंतीत्यर्थः, ततश्चैक एवाहं स्वकृतस्य कर्मणः फलमनुभवामीति चिंत // 450 // / // 450|| Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy