________________ श्रीतत्वार्थ हरि० 9 अध्या अन्यत्वभावना येत् , स्नेहानुरागप्रतिबन्ध इति, जनन्यादिविषयः स्नेहः भार्यायां कामविषयोऽनुरागः प्रतिबन्ध आसक्तिन भवति, परसंज्ञेषु / |च द्वेषानुबन्धः, पर एवायं न कदाचिदात्मीयो भवति, किमनेनादृतेनेति ?, ततः स्वजनेषु परजनेषु च निःसंगतामुपगतो मोक्षा यैव यतत इत्येकत्वानुप्रेक्षा 4 // ____ अन्यत्वभावनाविर्भावनायाह-शरीरव्यतिरेकेणेत्यादि (191-4) शरीरं पंचप्रकार औदारिकादि तस्मात् शरीरपंचकादन्योऽहं, कुत एतद् ?, यस्मादिन्द्रियग्राह्यं शरीरं, अनिद्रियोऽहं, न चक्षुरादिना करणेन ग्रहीतुं शक्यः, इन्द्रियग्राह्यं शरीरमित्यव्यापिनी अभेदप्रतिपत्तिरित्याह-अनित्यं शरीरमित्यादि, पुद्गलात्मकमौदारिकादि शरीरं, पुद्गलाश्च विशरारुत्वाच्छरीरसन्नि| वेशविशेषं विहाय स्कन्धान्तरेण परमाणुरूपेण वा वर्तन्ते, न जातुचिदात्मा असंख्येयप्रदेशसग्निवेशं परित्यज्य ज्ञानदर्शनरूपं| * | वा वृत्तो वर्तते वतिष्यते वा, ततश्च नित्यत्वमात्मनः, ननु च परिणामानित्यतयाऽऽत्मा अनित्योऽपीष्यत इत्यपरितुष्यन्नाह|अझं शरीरं ज्ञोऽहमिति न कदाचित् पुद्गला ज्ञानाद्युपयोगरूपेण परिणामिनो भवंति, आत्मा तु परिणामी ज्ञानाद्युपयोगपरिणामेनातोऽन्यत्वं,आद्यंतवच्छरीरमनाद्यतोऽहं आदिः-आरंभकालः अंतो-विनाशकालः तौ यस्य स्तः तदाद्यतवत् , आदिः / औदारिकवैक्रियाहारकाणां सुज्ञानः तैजसकार्मणयोः सत्यप्यनादिसम्बन्धे सन्तत्याऽनादित्वमिष्टं, पर्यायांगीकरणेन तु तेजसकार्मणपुद्गलाः परिशटंति लगंति च, यदा श्लेषमायान्ति तैजसकार्मणतया तदा आदिः, यदा परित्रटंति तदाऽन्तः, नैवमात्मनः कदाचिदादिरंतो वा विद्यते, आरभ्यारंभकभावाभावात् , ज्ञानरूपेण दर्शनरूपेण च दर्शयति, अविच्छिन्नत्वात् स्वरूपत्वाच्च सर्वदेवानाद्यन्तोऽहं, इतश्चान्यत्वं, बहूनि च मे शरीरशतसहस्राणीत्यादि प्राक्तनजन्मशरीराणि इदानीन्तनजन्मशरीराणि भवंति, // 45 // // 451 // Jan Education International For Personal & Private Use Only swww.jainelibrary.org