________________ श्रीत्तवार्थ हरि० 9 अध्या० भावना संसारे परिश्रमतः अनादौ च संसारे बहून्यतीतानि शरीरकाणि, न हि तेषां अधुनातनशरीरेऽन्वयोऽस्ति स्वल्पोऽपि, अहं ||2| पुनः स एव येनोपभुक्तान्यतीनानि शरीरशतसहस्राणीत्यतोऽहमन्यस्तेभ्य इत्यनुचिंतयेत् , अन्यत्वे च सति विच्छिन्नशरीरममत्वो | अशुचिनिःश्रेयसायैव घटत इत्यन्यत्वानुप्रेक्षा 5|| शुचि-मलरहितं न शुच्यशुचि शरीरकं-पाणिपादाद्यवयवसभिवेशविशेषः तदशुचीत्येवमेवं विचिंतयेत् , ननु च निर्मलशरीराः स्निग्धत्वचः खियः पुमांसश्च दृश्यन्ते,तत् कथमस्य प्रतिज्ञामात्रेणाशुचित्वं प्रतिपद्येमहीत्याह-आयुत्तरकारणाशुचित्वादित्यादि / हेतुपंचकं, तत्राद्युत्तरकारणाशुचित्वादिति (191-14) तत्र तेषु पंचसु हेतुषु आधुत्तरकारणाशुचित्वादित्यस्य व्याख्या, तावच्छब्दः क्रमावद्योतनार्थः, आद्यं कारणं-प्रथमं शुक्रं शोणितं च, करोतीति कारणं, निवर्तयत्युत्पादयतीत्यर्थः, योनावुत्पद्यमानो जीवस्तैजसकार्मणशरीरी प्रथममेव शुक्रशोणिते अभ्यवहरति, शरीरीकरोति-औदारिकशरीरतया परिणमयति, ततः कललार्बुद| पेसिघनपाणिपादाद्यंगोपांगशोणितमांसमस्तुलुंगास्थिमजाकेशश्मश्रुनखशिराधमनिरोमकूपादिना परिणमयति, उत्तरकारणं तु रसहरण्या परस्परप्रतिबद्धया जनन्याहृतमाहाररसमभ्यवहरति, तदेव तदुभयमरान्ताशुचीति, शुक्रशोणितयोरशुचित्वं लोकस्य प्रतीतमिति ख्यापयति-अत्यन्ताशुचीति, न जातुचिच्छुचित्वं शुक्रशोणितयोः समस्ति, तद्यथा कवलाहारो हीत्यादिना उत्तरका- | रणस्याशुचित्वमाचष्टे, कवलाहारो हि जनन्या ग्रस्तमात्र एव श्लेष्माशयं-कफस्थान प्राप्तः श्लेष्मणा द्रवतामापादितोऽत्यन्ता-| शुचिस्ततोऽपि पित्तस्थानप्राप्तोऽम्लतामापन्नोऽशुचिरेव, ततो वाताशयं प्राप्तः समीरणेन विभज्यमानः पृथक्खलः पृथग्रस इति // 452 / / | द्वयीपरिणतिमापाद्यते, ततो खलान्मत्रपुरीपक्षिकास्वेदलालादयो मलाः प्रादुष्पति, रसाच्छोणितमासमेदोऽस्थिमजशुक्राणि जायते, // 452 // Jan Education r ational For Personal Only