________________ श्रीतत्त्वार्थ हरि० 9 अध्या अशुचिभावना सर्व चैतत् कफादि शुक्रान्तमशुच्येव, तस्मादाधुत्तरकारणाशुचित्वादशुचिरेव, किंचान्यदित्यनेन अशुचित्वे हेत्वन्तरमाह / अशुचिभाजनत्वादिति (192-6) अशुचीनि कर्णमलादीनि तेषामवस्करभूतम् , अवस्करो-वर्चस्यानं पादपायुक्षालनकं तदिव यत् | तदवस्करभूतं यस्मादशुचीति, किंचान्यद् अशुच्युद्भवत्वादिति हेत्वन्तरं (192.9) एषामेव कर्णमलादीनामशुचीनामुद्भवः |-आकरः शरीरं यस्मात्तत उत्पद्यते एते कर्णमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितं, अनेन पुनर्हेतुना शरीरादेव कर्णमलादय उत्पद्यन्ते इति प्रतिपाद्यते, अथवा अयं विशेषः-अशुचौ च गर्भे संभवतीत्यशुचि शरीरं, गर्भ-उदरमध्यं, चशब्दो वाशब्दार्थः अशुचौ वा गर्ने पुरीषादिप्राये संभवति-उत्पद्यते यस्माच्छरीरं तस्मादशुचीति, किंचान्यदित्ययमपरो हेतुरशुचित्वे अशुभपरिणामिपाकानुबंधादिति (१९२-११)अशुचिः परिणामो यस्य पाकस्य तेनानुबंधत्वाद्-अनुगतत्वात् , तमेवाशुभपरिणाम पाकं प्रकाशयति आर्तव इत्यादिना, आर्जवम्-ऋतौ शोणितं तस्मिन् आर्त्तवे सति, बिंदोराधानात् प्रभृतीति, विन्दुः-शुक्रावयवः तदाधानात्-तत्प्रक्षेपात् प्रभृत्यौदारिकं कललादिभावेन परिणमते, अर्बुदं-घनव्यूहोऽवय| पविभागः,सर्वश्चायमशुभपरिणामः पाकः कललाधवयवरूपस्तेनानुबद्धं दुर्गधम्-अशुभगंधं अत एव पूतिस्वभावं, दुरंतमिति पर्यव| सानेऽपि कम्यादिपुंजो वा गृध्रसारमेयवायसादिभक्तं वा भस्मान्तमस्थिशकलानि वा, एवमिदं दुष्टान्तं शरीरं यतस्तस्मादशुचीति, किंचान्यदिति प्रकारान्तरेणैवाशुचित्वप्रतिपादनं, अशक्यप्रतीकारत्वादिति (192-14) अशक्यः प्रतीकारो यस्याशुचित्वस्य, | अशुच्यपनयनप्रकारश्च लोके जलक्षालनादिना प्रसिद्धः, उद्वर्तनं प्रतीतं, रूक्षणं रोधकपायादिमिः स्नानं जलेन अनुलेपनं चन्दनादिकं धूपो विशिष्टगंधद्रव्यसमवायी प्रक(घ)ो-गंधापणिकं वासयुक्तिः पटवासादिका माल्यं मालाई पुष्पं, आदिग्रहणात् IHORIMIMHDHINIOC D R // 453 // // 453 // MANOHIROECO Jan Education International For Personal & Private Use Only www.jainelibrary.org