________________ श्रीतत्त्वार्थ हरि० 9 अध्या अनित्याशरणत्वे | प्रकार स्वां सन्निवेशावस्था विहाय विशरारूता प्रतिपद्यत इति भावनाभ्यासान तेषु ममत्वं भवति, केवलं धर्मसाधनमिति ग्रहणं, सर्वसंयोगाश्चानित्या (189-5) इति, यावन्तः संयोगा ममसंबंधाः केचिद्वाह्याभ्यन्तरैव्यैः तेऽनित्याः, यतः संयोगेन वियो| गान्तेन भवितव्यं, स्वभावः खल्वयं बाह्याभ्यन्तराणां द्रव्याणामित्येवं चिंतयेत् , यसाच्चैवं चिन्तयतः तेष्वमिष्वंगो न भवति, स्नेह प्रतिबंधः, एतदेवाह-मा भूत् एतद्वियोगजं दुःखमित्यनित्यानुप्रेक्षा / (189-6) तैवियोगो बायाभ्यन्तरैव्यैस्तद्वियोगे | जातं दुःखं शारीरं मानसं वा तन् मा भूदित्यनागतमेवेत्यनित्यानुप्रेक्षा 1 // ___ अशरणानुप्रेक्षाप्रतिपादनायाह-यथा निराश्रय इत्यादि (189-8) यथेति दृष्टान्तप्रदर्शनं निराश्रय इति गुप्तिस्थानशून्येन | विरहिते इति निवारकाभावप्रदर्शनं, यत्र जनस्तत्र कदाचित् कश्चित् कारुणिको निवारयत्यपि, वनस्थलीपृष्ठ इति, वनशब्देन | वृक्षा एव गृह्यन्ते, न पुनर्जालिकूटादि तृप्तिस्थानं, बलवतेति दुर्बलेनाभिभूतः कदाचित् प्रणश्यत्यपि, बलवानपि यदि ध्राणो भवति | तदा मन्दादरत्वान्नानुगच्छेदित्याह-क्षुत्परिगतेनापि आमिपैषिणेति सिंहेन मृगराजेनाभ्याहतस्याभिभूतस्य मृगशिशोरिति जीर्णमृगः कदाचिदनुभूतकूटशतवागुरानिःशरणः प्रगल्भात् प्रणश्येदपि, न पुनः शावः, शरणं भयापहारि स्थानं तस्य चाभावः, एवमित्यादिना दार्टान्तिकमर्थ समीकरोति, जन्म योनेनिःसरणं गर्भाधानं वा उभयं दुःखहेतुस्तत्राकुलः पिंडकवद् योनिमुखेन पीड्यमानः कृच्छ्रेण निस्सरति,उदरस्थोऽपि पिडितावयवत्वात् पुरीतन्मूत्रपुरीषाकुलितः कतिचिन्मासान् दुःखेन गमयति, नि ठितश्च योनेर्जरसा ग्रस्यत एव, प्रतिक्षणमवस्थान्तरापत्तेः, मरणमप्यावीचिकमवश्यं भाव्येव जन्मवतः, व्याधयो ज्वराति- | सारकासश्वासकुष्ठप्रभृतयः प्रियः-जुष्टोरणमल्पायुषत्वात् जनस्तेन सह विप्रयोगस्तद्विपरीतोऽप्रियस्तेन च संप्रयोगः, ईप्सितमाप्तुमिष्टं % DDIDI // 448 // 448 // Jan Education international For Personal & Private Use Only