SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ९अध्या० अनित्याद्या अनुप्रेक्षाः Onlinormance MinomiaNAImprom mosiOCpmapi meCE |च निःस्पृहत्वान्निर्ममत्वाख्यमाकिंचन्यं भावयेत् , सत्याकिंचन्ये ब्रह्मचर्य परिपूर्ण भवतीति // एवं परमविशुद्धलक्षणे धर्म व्यवस्थितः पुनरप्यात्मदोषजुगुप्सार्थ जगद् द्वादशमिः स्वतचैविभज्य अनुचिंतयेदित्याहअनित्याशरणसंसारैकत्वान्यत्वाश्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यात स्वानुचिंतनमनुप्रेक्षाः // 2-7 // सूत्रम् / / तत्रानित्यादयो धर्मस्वाख्यातांताः कृतद्वन्द्वाः विहितभावप्रत्यया अनुचिंतनशब्देन सह कृतषष्ठीतत्पुरुषसमासाः समानाधिकरणमनुप्रेक्षाशब्देन सह सम्प्रतिपद्यन्ते, अपर पठन्ति अनुप्रेक्षा इति, अनुप्रेक्षितव्या इत्यर्थः, अपरेऽनुप्रेक्षाशब्दमेकवचनान्तरमधीयते, तत्रार्थानित्यादिचिन्तनमनुप्रेक्षोच्यते, बहुवचनान्तत्वेनानित्यादिचिंतनाऽनुप्रेक्षा इति, एता द्वादशानुप्रेक्षा इत्यादि (189-3) |भाष्य, एता इत्यनित्यादिका परामृष्यन्ते, द्वादशेति द्वादशैव, नाधिका न्यूना वा, अनुप्रेक्षणमनुप्रेक्षा, अनुप्रेक्ष्यन्ते अनुचित्यन्ते | इति वाऽनुप्रेक्षाः, तत्र तास्वनित्या भावना तावद्भण्यते-अभ्यंतरं शरीरद्रव्यं, जीवप्रदेशाप्तत्वात् , बाह्यानि शय्यासनववादीनि, आदिग्रहणादौधिकौपग्रहिकोपधेःसमस्तस्य ग्रहणं,तत्र शरीरं तावजन्मनः प्रभृति पूर्वमवस्थानं जहदुत्तरामवस्थामास्कन्दन् प्रतिक्षणमन्यथा अन्यथा च भवजराजर्जरितसकलावयवं पुद्गलजालविरचनामात्र पर्यन्ते परित्यक्तसन्निवेशविशेष जीर्यत इत्यनित्यमेव,परिणामा| नित्यत्वात् , एवमनागत एवानुप्रेक्ष्यमाणस्य तत्राभिष्वंगः-स्नेहप्रतिबन्धो न भवति, तत्र स्नेहाभ्यंजनोद्वर्त्तनमर्दनस्नानविभूषादिषु निःस्पृहस्य धर्मध्यानादिषु व्यासंगो भवति, आगमेऽप्यभिहितं-"जपि इमं सरीरं इ8 कंतं पियं मणुण्णं" इत्यादि,शय्या-प्रतिश्रयः | |संस्तरणपट्टकादिः-संस्तारफलकादिर्वा आसनं गोमयपीठकादि वस्त्रं कल्पचोलपट्टकादि प्रतिदिवसं रजसा विपरिणम्यमानं सर्व // 447 // // 447 // Join Education roernational For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy