Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 462
________________ तपोधर्मः श्रीतचार्थ हरि० ९ अध्या० रचना तपसः कार्या-चतुर्थषष्ठाष्टमदशमद्वादशानि प्रथमपंक्ती, द्वितीयस्यां दशमद्वादशचतुर्थषष्ठोष्टमानि, तृतीयायां षष्ठाष्टमद*शमचतुर्थानि, द्वादशचतुर्थषष्ठाष्टमदशमानि चतुर्थ्या, पंचम्यामष्टमदशमद्वादशमचतुर्थषष्ठानि, पारणादिवसाः पंचविंशतिः, कालो मासत्रयं दिनानि दश, एष एव चतुर्गुणः वर्षमेकं मासो दश दिनानीति सर्वतोभद्रमुच्यते, तिर्यगूर्व कर्णयोश्च सर्वत्र दिनराशिः तुल्यः, पंचदशपरिमाण इति, अथवा क्षुल्लकस्य सर्वतोभद्रस्य द्वितीयो विकल्पः-चतुर्थषष्ठाष्टमदशमद्वादशानि अष्टमदशमद्वादशचतुर्थषष्ठानि द्वादशचतुर्थषष्ठाष्टमदशमानि षष्ठाष्टमदशमद्वादशचतुर्थानि दशमद्वादशचतुर्थषष्ठाष्टमानीति । सम्पति महत्सर्वतोभद्रं भण्यते-सप्त गृहाणि कृत्वा तिर्यगूवं च चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशचतुर्थषष्ठाष्टमदशमद्वादशभक्तानि दशमद्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमानि षष्ठाष्टमदशमद्वादशचतुर्दशषोडशचतुर्थानि षोडशचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशानि द्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमदशमानि अष्टमदशमद्वादशचतुर्दशपोडशचतुर्थषष्ठानि । भद्रोत्तर| रचना-द्वादशचतुर्दशषोडशाष्टादशविंशतिभक्तानि अष्टादशविंशतिद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशअष्टादशविंशतिद्वा दशभक्तानि विंशतिद्वादशचतुर्दशषोडशाष्टादशभक्तानि षोडशाष्टादशविंशतिद्वादशचतुर्दशभक्तानीति, दिनानि पंचत्रिंशद्भद्रोत्तरं, | तथाऽपरं तपः आचाम्लवर्द्धमानं, अलवणारनालौदनलक्षणमाचाम्लं तद्वर्द्धमानं यत्र तपसि तदाचाम्लवर्द्धमानं तस्य प्ररूपणा -प्राक्तावदाचाम्लं ततः चतुर्थ भक्तं वे आचाम्ले पुनश्चतुर्थभक्तं त्रीण्येवाचाम्लानि पुनश्चतुर्थभक्तं चत्वार्याचाम्लानि पुनश्चतुर्थ| भक्तं पंचाचाम्लानि पुनश्चतुर्थभक्तम्-एवमेकैकमाचाम्लं वर्धयता चतुर्थभक्तं च विदधता तावद्वर्धयितव्यं यावदाचाम्लशतं पूर्ण पर्यते चतुर्थभक्तं, कालपरिमाणमस्य चतुर्दश वर्षाणि मासद्वयं विंशतिदिवसाश्चेति । सर्वतोभद्रमित्येवमादीत्यादिग्रहणा षोडशाष्टादशविंशतिभक्तापोडशाष्टादशविशति तपसि तदाचाम्लबद्ध ॥४४२॥ ॥४४२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556