________________
तपोधर्मः
श्रीतचार्थ
हरि० ९ अध्या०
रचना तपसः कार्या-चतुर्थषष्ठाष्टमदशमद्वादशानि प्रथमपंक्ती, द्वितीयस्यां दशमद्वादशचतुर्थषष्ठोष्टमानि, तृतीयायां षष्ठाष्टमद*शमचतुर्थानि, द्वादशचतुर्थषष्ठाष्टमदशमानि चतुर्थ्या, पंचम्यामष्टमदशमद्वादशमचतुर्थषष्ठानि, पारणादिवसाः पंचविंशतिः, कालो
मासत्रयं दिनानि दश, एष एव चतुर्गुणः वर्षमेकं मासो दश दिनानीति सर्वतोभद्रमुच्यते, तिर्यगूर्व कर्णयोश्च सर्वत्र दिनराशिः तुल्यः, पंचदशपरिमाण इति, अथवा क्षुल्लकस्य सर्वतोभद्रस्य द्वितीयो विकल्पः-चतुर्थषष्ठाष्टमदशमद्वादशानि अष्टमदशमद्वादशचतुर्थषष्ठानि द्वादशचतुर्थषष्ठाष्टमदशमानि षष्ठाष्टमदशमद्वादशचतुर्थानि दशमद्वादशचतुर्थषष्ठाष्टमानीति । सम्पति महत्सर्वतोभद्रं भण्यते-सप्त गृहाणि कृत्वा तिर्यगूवं च चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशचतुर्थषष्ठाष्टमदशमद्वादशभक्तानि दशमद्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमानि षष्ठाष्टमदशमद्वादशचतुर्दशषोडशचतुर्थानि षोडशचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशानि द्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमदशमानि अष्टमदशमद्वादशचतुर्दशपोडशचतुर्थषष्ठानि । भद्रोत्तर| रचना-द्वादशचतुर्दशषोडशाष्टादशविंशतिभक्तानि अष्टादशविंशतिद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशअष्टादशविंशतिद्वा
दशभक्तानि विंशतिद्वादशचतुर्दशषोडशाष्टादशभक्तानि षोडशाष्टादशविंशतिद्वादशचतुर्दशभक्तानीति, दिनानि पंचत्रिंशद्भद्रोत्तरं, | तथाऽपरं तपः आचाम्लवर्द्धमानं, अलवणारनालौदनलक्षणमाचाम्लं तद्वर्द्धमानं यत्र तपसि तदाचाम्लवर्द्धमानं तस्य प्ररूपणा
-प्राक्तावदाचाम्लं ततः चतुर्थ भक्तं वे आचाम्ले पुनश्चतुर्थभक्तं त्रीण्येवाचाम्लानि पुनश्चतुर्थभक्तं चत्वार्याचाम्लानि पुनश्चतुर्थ| भक्तं पंचाचाम्लानि पुनश्चतुर्थभक्तम्-एवमेकैकमाचाम्लं वर्धयता चतुर्थभक्तं च विदधता तावद्वर्धयितव्यं यावदाचाम्लशतं पूर्ण पर्यते चतुर्थभक्तं, कालपरिमाणमस्य चतुर्दश वर्षाणि मासद्वयं विंशतिदिवसाश्चेति । सर्वतोभद्रमित्येवमादीत्यादिग्रहणा
षोडशाष्टादशविंशतिभक्तापोडशाष्टादशविशति
तपसि तदाचाम्लबद्ध
॥४४२॥
॥४४२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org