________________
Vada] Nihnavavāda
:191: 183. N. ca rāsibherlamicchati tvamiva no-jivamicchannapil
Anyo'pi nayo necchati ji vājivālhikam kimapi. (2478) ]
Trans. 181-182-183. Even the system of Samabhirudha naya (does) not ( take ) a part ( that is) different from jiva as no-jiva, but mentions it merely as a compound (laying down both of them) in the same case. According to that ( system ), the portion of that which is animate (jiva-pradesa) is no-jiva. (But) this does not accept a part of jiva like the tail of a house-lizard (which is separate from the body ) as no-jiva as you (assert ). Although admitting (the category of) no-jiva, this does not allow for difference in categories as you (allow). Other systems also do not admit anything beyond jiva and a-jiva (2476-2478)
टीका-१८१-१८२-१८३ व्याख्या-इह "जीवे य से परसे य से सपएसे नोजीवे" इत्यत्रानुयोगद्वारोक्तसूत्रालापके समभिरूढ नयोऽपि नोजीवमिति नेच्छतीति सम्बन्ध-नोजीवत्वेन नेच्छ तीत्यर्थः । कं कर्मतापनम् ? । देशम् । कथंभूतम् ?। जीवादन्यं जीवाद् व्यतिरिक्तं देशं नोजीव समभिरूढनयोऽपि नेच्छति-किन्त्वव्यतिरिक्त मेव तं तस्मादिच्छतीत्यर्थः। कुत एतद् विज्ञायते ? इत्याह-येन कारणेन देश-देशिनोः कर्मधारणलक्षणं समानाधिकरणमेव समासमसौ समभिरूढनयो ब्रवीत्यभ्युपगच्छति, न पुनर्भेगमादिरिव तत्पुरुषमित्यर्थः । समानाधिकरणसमासश्च नीलोत्पलादीनामिव विशेषण-विशेष्याणाममेद एव भवति । अतो ज्ञायते जीवादनन्यरूपमेव देशं नोजीव मिच्छति समभिरूढ इति, एवं कथं तृतीयराशिःस्यात् ? इति । तदेव समभिरूढाभिमतं समानाधिकरणसमासं दर्शयति-"जीवे य से इत्यादि । जीवश्चासौ प्रदेशश्च जीवप्रदेशः स एव “नोजीवो त्ति" स एव जीवादव्यतिरिक्तो जीवप्रदेशो नोजीव इत्येवमिच्छति समभिरूढनयः, न पुनर्जीवदलं जीवात् पृथग्भूतं तत्खण्डं नोजीवमिच्छत्यसो, यथा गृहकोलिकादीनां पुच्छादिखण्डं नोजीवं त्वमिच्छसीति । अपि च, नोजीवमिच्छन्नपि समभिरूढनयो यथा त्वं तथा नोजीवाजीवराशिदयाद् मेदं नेच्छति, किन्तु जीवाजीवलक्षणं राशिद्वयमेवेच्छति, नोजीवस्यात्रैवान्तर्भावात् । तथाऽन्योपि नैगमादिनयोजीवा-ऽजीवेभ्योऽधिकं किमपि नोजीववस्तु नेच्छत्येव । ततस्त्वदीय एवायं नूतनःकश्चिद् मार्ग इति ॥२४७६।।२४७७॥२४७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org