Book Title: Shraman Bhagvana Mahavira Part 4
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 322
________________ • 298 Jinabhadra Gani's (The Botika अथ पात्रस्य मात्रकस्य च संयमोपकारित्वं दर्शनाह-"संसत्तेत्यादि" । संसक्तसक्तु-गोरस-द्राक्षादिपानक-पानीयगतसत्वमाणरक्षणार्थ पात्रमिति संबन्धः । पात्राभावे हि संसक्तगोरसादयो हस्तएवानाभोगादिकारणाद् गृहीताः क क्रियेरन् ? तद्गतसचानां प्राणविपत्तिरेव स्यात् । पात्रे तु सति समयोक्तविधिना ते परिस्थाप्यन्ते । तथा च सति तद्गतसत्त्वप्राणरक्षा पात्रेण सिध्यतीति । तथा पात्राभावे पाणिपुट एव गृहीतानां घृत-गोरसादिरसानां परिगलने सति यत् कुन्थु-कीटकादिप्राणघातनम् , ये च भाजन-धावनादिभिः पचात्कर्मादयो दोषास्तेषां परिहारार्थ च पात्रमिष्यते जगद्गुरुभिः । तथा, ग्लान-बाल-दुर्बलवृद्धाद्युपग्रहार्थं च तदिष्यते । पात्रे हि सति गृहस्थेभ्यः पथ्यादिकं समानीय ग्लान-बालादीनामुपग्रह उपष्टम्भः क्रियते, तदभावे पुनरसौ न स्यादेवेति । अपरश्च, पात्रे सति भक्तपानादिकं समानीयान्यस्य प्रयच्छतां साधूनां दानमय धर्मस्य साधनं सिद्धिर्भवति, पात्राभावे चैतद् न स्यात् । तदसत्त्वे कस्यापि केनचिद् भक्त-पानादिदानासंभवात् । “समया चेवं परुप्पर उ ति" एवं च पात्रे परिग्रहे सति लब्धिमतामलब्धिमतां च शक्तानामशक्तानां च वास्तव्यानां प्राघूर्णकानां च सर्वेषामपि साधूनां परस्परं समता स्वास्थ्यं तुल्यता भवति । पात्रे हि सति लब्धिमान् भक्त-पानादिकं समानीयालब्धिमते ददाति । एवं शक्तोऽशक्ताय, वास्तव्यः प्राघूर्णकायं तत् प्रयच्छति । इति सर्वेषां सौस्थ्यम् , पात्राभावे तु नैतत् , स्यादिति। . इह च पात्रग्रहणस्य गुणकथनेन मात्रकस्यापि तत्कथनं कृतमेव द्रष्टव्यम् , प्रायः समानगुणत्वात् , उक्तं च- . छकायरक्खणट्ठा पायग्गहणं जिणेहि पलतं । जे य गुणा संभोए हवंति ते पायगहणे वि ॥१॥ अतरंत-बाल-वुड्ढा-सेहाएसा गुरू अ सहुवग्गा । साहारणुग्गहा अलद्धिकारणा पायगहणं तु ॥२॥ आयरिए य गिलाणे पाहुणए दुल्लहे सहसदाणे । संसचमत्चपाणे मत्तगपरिमोगणुण्णा उ ॥३॥ इति ॥२५७५॥२५७६॥२५७७॥२५७८।२५७९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373