Book Title: Shraman Bhagvana Mahavira Part 4
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 357
________________ Nihnavavāda : 333: गोष्ठा माहिल: पूर्वदर्शितौ द्वौ पदार्थों नेच्छति, उक्तशेषांस्तु पदार्थान् सर्वानपीच्छतीति । ततः किम् ? इत्याह - " अवरोप्परमित्यादि ” एवं च सत्येकत्रसमेता मिलिताः सर्वेऽपि निहवा विवदन्तः परस्परमेकैकस्य द्वौ द्वौ दोषौ ददति प्रयच्छन्ति । तत्र बहुरतादेः प्रादेशिकादि: परस्तस्य परस्य यद् मतं निजोऽभिप्रायस्तदभ्युपगमरूपा या संप्रतिपत्तिः सा परमतसंप्रतिपत्तिस्तां परस्परं दूषयन्ति । तथा, बहुरतादेः स्वस्यात्मनो यद् मतं तत्र या तदनभ्युपगमरूपा परस्य प्रादेशिकादेर्विप्रतिपत्तिस्तां दूषयन्ति । एवं च सन्येकैकस्य द्वौ द्वौ दोषौ संचध्येते । अयमत्र भावार्थ:- बहुरतः प्रादेशिकं वक्ति, तत्र द्वौ दोषौ - एकं तावत् " कृतमेव कृतम्” इति मदीयमतं निर्दोषमपि न मन्यसे, " चरम एव प्रदेशो जीवः" इत्यात्मीयमतं तु सदोषमपि मन्यस इति । एवं प्रादेशिकोऽपि बहुरतस्य व्यत्ययेन द्वौ दोषौ ददाति । तथा, अयमेव प्रादेशिकोऽव्यक्तवादिनं वदति, तत्र द्वौ दोषौ - सदोपखमताभ्युपगमः, निर्दोषमदीयमतानभ्युपगमचेति । एवमव्यaise प्रादेशिकस्य व्यत्ययेन द्वौ दक्षेषौ ददाति । एवं तावद् नेयं यावत् त्रैराशिकोsद्धिकं वक्ति द्वौ दोषौ - सदोषस्वमताभ्युपगमः, निर्दोषमदीयमतानभ्युपगामश्रेति एवमबद्धिकोऽपि त्रैराशिकं व्यत्ययेन द्वौ दोषौ ददातीति । एवं एवं बहुरतादयोऽव्यक्तादिभिरपि सह द्विक्योगेन क्रमशश्चारणीयाः, सर्वत्र च द्विक्योगे यथोक्तदोषद्वयप्रदानं परस्परतो वक्तव्यम् । 1 आह- नन्ववद्धिकः स्पृष्टाबद्धं कर्म, परिमाणरहितं च प्रत्याख्यानमिति द्वौ पदार्थों नेच्छतीति प्रागुक्तम् । ततश्चासौ प्रतियोगिनो निह्नवस्य त्रीन् दोषान् ददाति, प्रतियोग्यप्यस्य त्रीनेत्र दोषान् प्रयच्छतीति प्राप्नोति । तथाहि - अबद्धिको बहुरतं वक्ति-तव त्रयो दोषाः एकं तावद् निर्दोषमपि मदभ्युपगतपदार्थद्वयं नेच्छसि, अपरं च स्वयं सदोषमपि स्वाभिमतं पदार्थ कल्पयसीति । एवं बहुरतोऽप्यवद्विकस्य व्यत्ययेन दोषत्रयं ददातीति । एवमवद्धिकेन सह प्रतियोगिनां विचारे सर्वत्र दोषत्रयं प्राप्नोति, तत् कथं एकैकस्य द्वौ द्वौ दोषौ इति व्याप्त्या प्रोच्यते १--1 सत्यम्, यद्यबद्धिकस्य व्यक्तिविवक्षया पदार्थद्वयभेदेन भिन्नं मतं विवक्ष्यते, तदा यत् त्वं वदसि तत् तथैव मन्यामहे । यदा तु पदार्थद्वय मेदेन मनमपि तस्य सामान्येनैकं मतमात्रं विवक्ष्यते तदा दर्शितन्यायेनैकैकस्य द्वौ द्वौ दोषाविति सर्वत्र न विरुध्यत इत्यलं विस्तरेणेति ॥२६१२||२६१३||२६१४॥ D. C. All the Nihnavas excepting Goṣṭhā Māhila have acce Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373