________________
• 298
Jinabhadra Gani's (The Botika अथ पात्रस्य मात्रकस्य च संयमोपकारित्वं दर्शनाह-"संसत्तेत्यादि" । संसक्तसक्तु-गोरस-द्राक्षादिपानक-पानीयगतसत्वमाणरक्षणार्थ पात्रमिति संबन्धः । पात्राभावे हि संसक्तगोरसादयो हस्तएवानाभोगादिकारणाद् गृहीताः क क्रियेरन् ? तद्गतसचानां प्राणविपत्तिरेव स्यात् । पात्रे तु सति समयोक्तविधिना ते परिस्थाप्यन्ते । तथा च सति तद्गतसत्त्वप्राणरक्षा पात्रेण सिध्यतीति । तथा पात्राभावे पाणिपुट एव गृहीतानां घृत-गोरसादिरसानां परिगलने सति यत् कुन्थु-कीटकादिप्राणघातनम् , ये च भाजन-धावनादिभिः पचात्कर्मादयो दोषास्तेषां परिहारार्थ च पात्रमिष्यते जगद्गुरुभिः । तथा, ग्लान-बाल-दुर्बलवृद्धाद्युपग्रहार्थं च तदिष्यते । पात्रे हि सति गृहस्थेभ्यः पथ्यादिकं समानीय ग्लान-बालादीनामुपग्रह उपष्टम्भः क्रियते, तदभावे पुनरसौ न स्यादेवेति । अपरश्च, पात्रे सति भक्तपानादिकं समानीयान्यस्य प्रयच्छतां साधूनां दानमय धर्मस्य साधनं सिद्धिर्भवति, पात्राभावे चैतद् न स्यात् । तदसत्त्वे कस्यापि केनचिद् भक्त-पानादिदानासंभवात् । “समया चेवं परुप्पर उ ति" एवं च पात्रे परिग्रहे सति लब्धिमतामलब्धिमतां च शक्तानामशक्तानां च वास्तव्यानां प्राघूर्णकानां च सर्वेषामपि साधूनां परस्परं समता स्वास्थ्यं तुल्यता भवति । पात्रे हि सति लब्धिमान् भक्त-पानादिकं समानीयालब्धिमते ददाति । एवं शक्तोऽशक्ताय, वास्तव्यः प्राघूर्णकायं तत् प्रयच्छति । इति सर्वेषां सौस्थ्यम् , पात्राभावे तु नैतत् , स्यादिति। .
इह च पात्रग्रहणस्य गुणकथनेन मात्रकस्यापि तत्कथनं कृतमेव द्रष्टव्यम् , प्रायः समानगुणत्वात् , उक्तं च- .
छकायरक्खणट्ठा पायग्गहणं जिणेहि पलतं । जे य गुणा संभोए हवंति ते पायगहणे वि ॥१॥ अतरंत-बाल-वुड्ढा-सेहाएसा गुरू अ सहुवग्गा । साहारणुग्गहा अलद्धिकारणा पायगहणं तु ॥२॥ आयरिए य गिलाणे पाहुणए दुल्लहे सहसदाणे । संसचमत्चपाणे मत्तगपरिमोगणुण्णा उ ॥३॥ इति ॥२५७५॥२५७६॥२५७७॥२५७८।२५७९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org