SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Vada ] Nihnavavāda :297: यदि कल्पा न भवेयुः, तदा शीतार्ताः साधवोऽग्नि-तृणादीन्धन-ज्वलन्तं कुर्युः । तत्करण चावश्यभावा तद्गसत्वोपघातः। कल्पैस्तु प्रावृतैरेष न भवत्येव, अमितृणादिज्वलनमन्तरेणापि शीतार्तिनिवृत्तेरिति । तथा "कालचउकं उकोसए जहने तियं तु बोधव्वं" इत्यादिवचनात् समस्तरात्रिजागरणं कुर्वद्भिः साधुभिश्चत्वारः काला ग्रहीतव्याः । तच्च हिमकणमवर्षिणि शीते पतति चतुष्कालं गृह्णतां तेषामृषीणां । कल्पाः प्रावृताः सन्तो निर्विघ्नं स्वाध्यायध्यानसाधनं कुर्वन्ति, शीतार्त्यपहरणादिति । तथा “महि ति" महाराबाक्षिप्ता सचिता पृथिवी तस्याः पतन्त्या रक्षानिमित्तं प्रावृताः कल्पाः संजायन्ते, महिका धूमिका, “वास त्ति" वर्षा वृष्टिः, 'उस त्ति' आवश्याय: प्रतीतः रजोऽपि सचित्तमीषदाताम्रनभसः पततीति प्रतीतमेव, आदिशब्दात् प्रदीप-तेजः प्रभृतीनां परिग्रहः । एतेषां च महिकादिगतानां सच्चानां रक्षानिमित्तं कल्पाः संजायन्त इति । तथा, मृतस्य संवरणं संवरं आच्छादनम् , उज्झनं बहिर्नयन तदर्थ वा श्वेतोज्ज्वलप्रच्छादनपटिकादिवसमभिहितम् । ग्लानप्राणोपकारि च तदमिमतं परमगुरूणाम् । एवं मुख. वत्रिका-रजोहरणादि चोपकरणं समयानुसारतः संयमोपकारित्वेन योज्यं भणनीयम् । तथा चोक्तं कल्पभाष्यादिषु - कप्पा आयप्पमाणा अड्डाइज्झाइवित्थडा हत्था । दो चेव सोत्तिया उनिओ य तइओ मुणेयव्वो ॥१॥ तणगहणाणलसेवानिवारणा धम्मसुक्कज्झाणट्ठा । दिटुं कप्पग्गहणं गिलाण-मरणट्टया चेव ॥२॥ संपाइमरयरेणुपमजणट्ठा वयंति मुहपत्तिं । नासं च मुहं च बंधइ तीए वसहिं पमजंतो ॥३॥ आयाणे निक्खेवे ठाणनिसीए सुयपट्टसंकोए । पुव्वं पमजणट्ठा लिंगट्ठा चेव स्यहरणं ॥४॥ वेउव्वोऽवायेज्वाइए हीखद्दे पजपणे चेव । तेसिं अणुग्गहट्ठा लिंगुदयट्ठा य पट्टो य ॥५॥ तत्र प्रजनने मेहने "वेउवि ति" वैक्रिये विकृते, तथा, अप्रावृतेऽनावृते वातिके चोत्सूनत्वभाजने, हिया लज्जया सत्या खड्डे बृहत्प्रमाणे “लिंगुदयट्ठ ति" स्त्री दर्शर्ने लिङ्गोदयरक्षणार्थं च पटोलपट्टो मत इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.008005
Book TitleShraman Bhagvana Mahavira Part 4
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherParimal Publication
Publication Year1989
Total Pages373
LanguageEnglish, Sanskrit
ClassificationBook_English, Biography, History, & Religion
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy