Book Title: Shraman Bhagvana Mahavira Part 4
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

View full book text
Previous | Next

Page 310
________________ :286 Jinabhadra Gani's [The Botika ments etc. on the occasion of upasarga etc, attain the Absolute State of Existence unaccompanied (by anyone).. (25622557). टीका-१३-१४-१५-१६-१७-१८ एताः सुगमा एव, नवरं यदि यो मूछोहेतुः स ग्रन्थः परिग्रहः, परिग्रहत्वादेव च त्याज्यः, ततस्तर्हि "मुच्छावउ त्ति" मूर्छावतो वक्ष्यमाणयुक्त्या मूछायुक्तस्य देहा-ऽऽहारादिकस्तव हन्त ? कथमग्रन्थः । अपि तु ग्रन्थ एव, ततः सोऽपि परित्याज्यः प्रामोति । कथं वा ममत्वमूर्छारहितत्वेनासङ्गस्य सङ्गविप्रमुक्तस्य साधोर्वस्त्रादिकं ग्रन्थो गीयते भवता ?-न भवत्येव तयाभूतस्य तद् ग्रन्थ इति । अथ देहा-ऽऽहारादिषु ते तव मूर्छा नास्ति, मोक्षसाधनमत्या तेषां ग्रहणात् , तर्हि मोक्षसाधनत्वेन तुल्येप्वपि वस्त्रादिषु तव हन्त ! का मूर्छा ? इति । अथ स्थूलेषु बाह्यत्वात् , क्षणमात्रेणैवाग्नि-तस्करायुपद्रवगम्यत्वात् , मुलभत्वात् , कतिपयदिनान्ते स्वयमेव विनाशधर्मकत्वात् शरीराद् नितरां निःसारेषु वस्त्रादिषु मूछों करोषि त्वम्, तर्हि ध्रुवं निश्चितं शरीरेऽपि विशेषतो मूछों करिष्यसि । कुतो विशेषेण तत्र तत्करणमित्याह-"अक्केज्ज दुल्लभयरे ति" विभक्तिव्यत्ययात् शरीरस्याक्रय्यत्वात् क्रयेणालभ्यत्वात् । न हि वस्त्रादिवत् शरीरक्रयेण क्वापि लभ्यते । अत एव वस्त्राधपेक्षया दुर्लभतरत्वात् , तथा, तदपेक्षयैवान्तरङ्गत्वात् , बहुतरदिनावस्थायित्वात् , विशिष्टतरकार्यसायकत्वाच विशेषेण शरीरे मूच्र्छा करिष्यसीति । अथ देहादिमात्रे या मूर्छा सा स्वल्पैव, वस्त्रादिग्रन्थमूर्छा तु बह्वी, ततो देहादिमात्रमूर्छासंभवेऽपि नमश्रमणकाः सेत्स्यन्ति, न भवन्तः, बहुपरिग्रहत्वादित्याह"वत्थाइ" इत्यादि गाथात्रयम् । अयमिह संक्षेपार्थ:-तिर्यक्-शबरादयोऽल्पपरिग्रहा अपि, तथा शेषमनुष्या अपि महादारियोपहताः क्लिष्टमनसोऽविद्यमानतथाविधपरिग्रहा अप्यनिविगृहीतात्मानो लोमादिकषायवर्गवशीकताः परसत्केष्वपि विमवेषु मूर्छाकषायादिदोषैः कर्ममलमनन्तमर्जयन्ति, तद् बहूशो निरयोपगा भवन्ति, न मोक्षप्रापकाः । अन्ये तु महामुनयः केनचिदुपसर्गादिबुद्धया शरीरासञ्जितमहामुल्यवत्रा-ऽऽमरण-माल्य-विलेपनादिसंयुक्ता अपि सर्वसङ्गविनि का निगृहीतात्मानो जितलोभादिकषायरिपकः समासादितविमलकेवलालोकाः सिद्विमुपगच्छन्ति । तस्मादवश्यात्मनां क्लिष्टमनसां नाग्न्यमात्रमिदमकिश्चित्करमेवेति ॥२५६२।।२५६शा२५६॥२५६५।।२५६६।२५६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373