________________
:286 Jinabhadra Gani's
[The Botika ments etc. on the occasion of upasarga etc, attain the Absolute State of Existence unaccompanied (by anyone).. (25622557).
टीका-१३-१४-१५-१६-१७-१८ एताः सुगमा एव, नवरं यदि यो मूछोहेतुः स ग्रन्थः परिग्रहः, परिग्रहत्वादेव च त्याज्यः, ततस्तर्हि "मुच्छावउ त्ति" मूर्छावतो वक्ष्यमाणयुक्त्या मूछायुक्तस्य देहा-ऽऽहारादिकस्तव हन्त ? कथमग्रन्थः । अपि तु ग्रन्थ एव, ततः सोऽपि परित्याज्यः प्रामोति । कथं वा ममत्वमूर्छारहितत्वेनासङ्गस्य सङ्गविप्रमुक्तस्य साधोर्वस्त्रादिकं ग्रन्थो गीयते भवता ?-न भवत्येव तयाभूतस्य तद् ग्रन्थ इति । अथ देहा-ऽऽहारादिषु ते तव मूर्छा नास्ति, मोक्षसाधनमत्या तेषां ग्रहणात् , तर्हि मोक्षसाधनत्वेन तुल्येप्वपि वस्त्रादिषु तव हन्त ! का मूर्छा ? इति । अथ स्थूलेषु बाह्यत्वात् , क्षणमात्रेणैवाग्नि-तस्करायुपद्रवगम्यत्वात् , मुलभत्वात् , कतिपयदिनान्ते स्वयमेव विनाशधर्मकत्वात् शरीराद् नितरां निःसारेषु वस्त्रादिषु मूछों करोषि त्वम्, तर्हि ध्रुवं निश्चितं शरीरेऽपि विशेषतो मूछों करिष्यसि । कुतो विशेषेण तत्र तत्करणमित्याह-"अक्केज्ज दुल्लभयरे ति" विभक्तिव्यत्ययात् शरीरस्याक्रय्यत्वात् क्रयेणालभ्यत्वात् । न हि वस्त्रादिवत् शरीरक्रयेण क्वापि लभ्यते । अत एव वस्त्राधपेक्षया दुर्लभतरत्वात् , तथा, तदपेक्षयैवान्तरङ्गत्वात् , बहुतरदिनावस्थायित्वात् , विशिष्टतरकार्यसायकत्वाच विशेषेण शरीरे मूच्र्छा करिष्यसीति । अथ देहादिमात्रे या मूर्छा सा स्वल्पैव, वस्त्रादिग्रन्थमूर्छा तु बह्वी, ततो देहादिमात्रमूर्छासंभवेऽपि नमश्रमणकाः सेत्स्यन्ति, न भवन्तः, बहुपरिग्रहत्वादित्याह"वत्थाइ" इत्यादि गाथात्रयम् । अयमिह संक्षेपार्थ:-तिर्यक्-शबरादयोऽल्पपरिग्रहा अपि, तथा शेषमनुष्या अपि महादारियोपहताः क्लिष्टमनसोऽविद्यमानतथाविधपरिग्रहा अप्यनिविगृहीतात्मानो लोमादिकषायवर्गवशीकताः परसत्केष्वपि विमवेषु मूर्छाकषायादिदोषैः कर्ममलमनन्तमर्जयन्ति, तद् बहूशो निरयोपगा भवन्ति, न मोक्षप्रापकाः । अन्ये तु महामुनयः केनचिदुपसर्गादिबुद्धया शरीरासञ्जितमहामुल्यवत्रा-ऽऽमरण-माल्य-विलेपनादिसंयुक्ता अपि सर्वसङ्गविनि
का निगृहीतात्मानो जितलोभादिकषायरिपकः समासादितविमलकेवलालोकाः सिद्विमुपगच्छन्ति । तस्मादवश्यात्मनां क्लिष्टमनसां नाग्न्यमात्रमिदमकिश्चित्करमेवेति ॥२५६२।।२५६शा२५६॥२५६५।।२५६६।२५६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org