Book Title: Shraman Bhagvana Mahavira Part 4
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 296
________________ : 272: Jinabhadra Gani's [The Botika स किं व्यवच्छिद्यते ?, नन्वहमेव तं करोमि, परलोकार्थिना स एव निष्परिग्रहों जिनकल्पः कर्तव्यः, किं पुनरनेन कषाय-भय- मृच्छदिदोष विधिना परिग्रहा ? | अतएव श्रुते निष्परिग्रहत्वमुक्तम्, अचेलकाय जिनेन्द्राः, अतोऽचेलतैव सुन्दरेति" । ततो गुरुणा प्रोक्तम्- हन्त १ यद्येवम्, तर्हि देहेऽपि कषायभय-मूर्च्छादयो दोषाः कस्यापि संभवन्ति इति सोऽपि व्रतग्रहणानन्तरमेव त्यक्तव्यः प्राप्नोति । यच श्रुते निष्परिग्रहत्वमुक्तं तदपि धर्मोपकरणेष्वपि मूर्च्छा न कर्तव्या, मूर्च्छाभाव एव निष्परिग्रहत्वमवसेयम्, न पुनः सर्वथा धर्मोपकरणस्यापि त्यागः | जिनेन्द्रा अपि न सर्वथैवाचेलका : " सव्वे वि एगदूसेण निग्गया जिणवरा चउव्वीसं " इत्यादि वचनात् । तदेवं गुरुणा स्थविरैश्व यथोक्ताभिर्वक्ष्यमाणामिव युक्तिभिः प्रज्ञाप्यमानोऽपि तथाविधकषाय मोहादिकर्मोदयाद् न स्वाग्रहाद् निवृतोऽसौ, किन्तु चीवराणि परित्यज्य निर्गतः । तत बहिरुद्याने व्यवस्थितस्यास्योत्तरा नाम भगिनी वन्दनाथं गता । सा च त्यक्तचीवरं सं भ्रातरमालोक्य स्वयमपि चीराणि त्यक्तवती । ततो भिक्षार्थं नगरमध्ये प्रविष्टां गणिका दृष्टा । तत इत्थं विवस्त्रां बीभत्सामिमां दृष्ट्वा मा लोकोऽस्मासु विराङ्गीत् ” इत्यनिच्छन्त्यपि तया वस्त्रं परिधापिताऽसौ । तत एष व्यतिकरो - saया शिवभूतेर्निवेदितः । ततोऽनेन “ विवस्त्रा योषिद् नितरां बीभत्साऽतिलज्जनीया च भवति " इति विचिन्त्य प्रोक्ताऽसौ - " तिष्ठत्वित्थमपि, न त्यक्तव्यं त्वयैतद् वस्त्रम् । देवतया हि तवेदं प्रदत्तमिति । ततः शिवभूतिना कौण्डिन्य- कोट्टवीरनामानो द्वौ शिष्यौ दीक्षितौ । 46 गाथाक्षरार्थोऽपि किञ्चिदुच्यते - " कौण्डिन्येत्यादि कौण्डिन्य व कोट्टवीरश्रेति “ सर्वो द्वन्द्वो विभाषयैकवद् भवति " इति वचनात् कौण्डिन्य- कोट्टवीरम्, तस्मात् कौण्डिन्य- कोट्टवीरात् परम्परास्पर्शमाचार्य-शिष्यसंबन्धलक्षणमधिकृत्योत्पन्ना संजाता । " बोटकदृष्टिः ” इत्यध्याहारः । इत्येव बोटिकाः समुत्पन्नाः ||२५५१॥२५५२॥ D. C. A detailed account of the rise of the Boțika type of Nihnavas is given below: Once upon a time an Acarya named Arya Krisņasari had come to the city of Rathavirapura, and put up in the Dipaka garden outside the city. In the city, there lived a Royal atten Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373