Book Title: Shraman Bhagvana Mahavira Part 4
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 295
________________ Vada ] Nihnavavāda : 271: 46 न पुनरेवं तव पृष्टलग्नः कोऽप्यत्र मरिष्यति " । ततः कोपाऽहङ्काराभ्यां प्रेर्यमाणो sit निर्गतः । पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः । तत्र च साधवः कालग्रहणं कुर्वन्ति । तेषां च पार्श्वे तेन वन्दित्वा व्रतं याचितम् । तैथ राजवल्लभः, मात्रादिभिरमुत्कलितश्च ” इति न दत्तम् । ततः खेलमल्लकाद् दीक्षां गृहीत्वा स्वयमेव लोचः कृतः । साधुभिर्लिङ्गं समर्पितम् । विहृताथ सर्वेऽप्यन्यत्र । कालान्तरेण पुनरपि च तत्रागताः । ततो राज्ञा शिवभूतेर्बहुमुल्यं कम्बलरत्नं दत्तम् । तत आचार्यैः शिवभूति रुक्तः - किमनेन तव साधूनां मार्गादिष्वनेकानर्थहेतुना गृहीतेन ? ततस्तेन गुर्वप्रतिभासेनापि संगोप्य मूर्च्छया तद् विधृतम् । गोचरचर्याभिश्चागतः प्रत्यहं तदसौ संभालयति, न तु काचिदपि व्यापारयति । ततः " गुरुभिर्मूच्छितोऽयमत्र " इति ज्ञात्वाऽन्यत्रदिने तमनापृच्छयैव बहिर्गतस्य परोक्षे तत् कम्बलरत्नं पाटयित्वा साधूनां पादग्रोञ्छनकानि कृतानि । ततो ज्ञातव्यतिकरः कषायितोऽसौ विष्टति । अन्यदा च सूरयो जिनकल्पिकान् वर्णयन्ति, तद्यथा जिणकप्पिया य दुविधा पाणिपाया पडिग्गहधरा य । पाउरण पाउरणा इक्किका ते भवे दुविहा ॥१॥ दुग तिग चउकं पणगं नव दस एकारसेत्र बारसगं । एए अट्ठ विगप्पा जिणकप्पे होंति उवहिस्स ||२|| इह केषाञ्चिज्जिन कल्पानां रजोहरणं, मुखवस्त्रिका चेति द्विविध उपधिः, अन्येषां तु कल्पेन सह त्रिविधः, कल्पद्वयेन तु सह चतुर्विधः, कल्पत्रयेण सह पञ्चविधः । केषाञ्चित्तु मुखवस्त्रिका, रजोहरणं च, तथा, Jain Education International पत्तं पत्ताबंधी पायट्टवणं च पायकेसरिया । पटलाई रत्ताणं च गोच्छओ पायनि जोगो ॥ १ ॥ इति सप्तविधः पात्रनिर्योग इति, एवं च नवविधः । कल्पेन तु सह दशविधः कल्पद्वयेन सहैकादशविध, कल्पत्रयेण तु समं द्वादशविधउपधिः केषाश्चिज्जिनकल्पनामिति । तदेतत् श्रुत्वा शिवभूतिना प्रोक्तम् - " यद्येवम्, तर्हि किमिदा नीमौधिक औपग्रहिकश्चैतावानुपधिः परिगृह्यते १ । स एव जिनकल्पः किं न क्रियते ? । ततो गुरुभिरुक्तम् - जम्बूस्वामिनि व्यवच्छिन्नोऽसौ संहननाद्यभावात्, सांप्रतं न शक्यत एव कर्तुम् ” । ततः शिवभूतिना प्रोक्तम् - " मयि जीवति For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373