________________
Vada ]
Nihnavavāda
: 271:
46
न पुनरेवं तव पृष्टलग्नः कोऽप्यत्र मरिष्यति " । ततः कोपाऽहङ्काराभ्यां प्रेर्यमाणो sit निर्गतः । पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः । तत्र च साधवः कालग्रहणं कुर्वन्ति । तेषां च पार्श्वे तेन वन्दित्वा व्रतं याचितम् । तैथ राजवल्लभः, मात्रादिभिरमुत्कलितश्च ” इति न दत्तम् । ततः खेलमल्लकाद् दीक्षां गृहीत्वा स्वयमेव लोचः कृतः । साधुभिर्लिङ्गं समर्पितम् । विहृताथ सर्वेऽप्यन्यत्र । कालान्तरेण पुनरपि च तत्रागताः । ततो राज्ञा शिवभूतेर्बहुमुल्यं कम्बलरत्नं दत्तम् । तत आचार्यैः शिवभूति रुक्तः - किमनेन तव साधूनां मार्गादिष्वनेकानर्थहेतुना गृहीतेन ? ततस्तेन गुर्वप्रतिभासेनापि संगोप्य मूर्च्छया तद् विधृतम् । गोचरचर्याभिश्चागतः प्रत्यहं तदसौ संभालयति, न तु काचिदपि व्यापारयति । ततः " गुरुभिर्मूच्छितोऽयमत्र " इति ज्ञात्वाऽन्यत्रदिने तमनापृच्छयैव बहिर्गतस्य परोक्षे तत् कम्बलरत्नं पाटयित्वा साधूनां पादग्रोञ्छनकानि कृतानि । ततो ज्ञातव्यतिकरः कषायितोऽसौ विष्टति । अन्यदा च सूरयो जिनकल्पिकान् वर्णयन्ति,
तद्यथा
जिणकप्पिया य दुविधा पाणिपाया पडिग्गहधरा य । पाउरण पाउरणा इक्किका ते भवे दुविहा ॥१॥
दुग तिग चउकं पणगं नव दस एकारसेत्र बारसगं । एए अट्ठ विगप्पा जिणकप्पे होंति उवहिस्स ||२||
इह केषाञ्चिज्जिन कल्पानां रजोहरणं, मुखवस्त्रिका चेति द्विविध उपधिः, अन्येषां तु कल्पेन सह त्रिविधः, कल्पद्वयेन तु सह चतुर्विधः, कल्पत्रयेण सह पञ्चविधः । केषाञ्चित्तु मुखवस्त्रिका, रजोहरणं च, तथा,
Jain Education International
पत्तं पत्ताबंधी पायट्टवणं च पायकेसरिया ।
पटलाई रत्ताणं च गोच्छओ पायनि जोगो ॥ १ ॥
इति सप्तविधः पात्रनिर्योग इति, एवं च नवविधः । कल्पेन तु सह दशविधः कल्पद्वयेन सहैकादशविध, कल्पत्रयेण तु समं द्वादशविधउपधिः केषाश्चिज्जिनकल्पनामिति । तदेतत् श्रुत्वा शिवभूतिना प्रोक्तम् - " यद्येवम्, तर्हि किमिदा नीमौधिक औपग्रहिकश्चैतावानुपधिः परिगृह्यते १ । स एव जिनकल्पः किं न क्रियते ? । ततो गुरुभिरुक्तम् - जम्बूस्वामिनि व्यवच्छिन्नोऽसौ संहननाद्यभावात्, सांप्रतं न शक्यत एव कर्तुम् ” । ततः शिवभूतिना प्रोक्तम् - " मयि जीवति
For Private Personal Use Only
www.jainelibrary.org