Book Title: Shraman Bhagvana Mahavira Part 4
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 246
________________ : 222 : Jinabhadra Gaņi's [The seventh निगहितविभागाः कृता इति । अन्यदा च ते आर्यरक्षितसूरयो विहारक्रमेण मथुरानगरी गताः । तत्र च भूतगुहायां व्यन्तरगृहे स्थिताः । इतश्च शक्रो महाविदेहे सीमन्धरस्वामितीर्थकरसमीपे निगोदवक्तव्यतां श्रुत्वा विस्मितः। पृष्ठवान्-" किं भगवन् ? भरतक्षेत्रेऽपि सांप्रतममुमतीवसूक्ष्म निगोदविचारं कोऽपि बुध्यते प्ररूपयति च ? । ततो भगवता प्रोक्तम्-प्ररूपयन्त्यार्यरक्षितसूरयः "। एतच्च श्रुत्वा विस्मय-कौतुक-भक्तिभरपूर्यमाणमानसो देवेन्द्रः स्थविरब्राह्मणरूपं कृत्वा साधुषु भिक्षाचर्या गतेष्वार्यरक्षितसमीपमुपययौ । ततस्तेनार्यरक्षितसूरयो वन्दित्वा पृष्टाः-'भगवन् ? महान् व्याधिर्वर्तते, तेनाहमनशनं कर्तुमिच्छामि, तत् कथयत मम कियदायुष्कम् ? इति । ततो यविकेष्वायुःश्रेणावुपयोगं दत्त्वा सूरिभिातम्-नायं मनुष्यो व्यन्तरादिर्वा किन्तु द्विसागरोपमस्थितिकोऽसौ सौधर्माधिपतिः। ततश्च वार्धक्येनाधः पतिते करेण ध्रुवावुत्क्षिप्य निरीक्ष्य च प्रोक्तम् शको भवान् । एवं चाभिहिते तुष्टेन देवाधिपतिना निवेदितः सर्वोऽपि तीर्थकरसमीपनिगोदश्रवणादिव्यतिकरः । ततः पृष्टाः शक्रेण निगोदजीवाः । प्ररूपिताश्च विस्तरतः । ततस्तुष्टमानसेन सुरपतिना प्रणम्य "ब्रजामि" इति प्रोक्तेऽमिहितं गुरुभिः-'तिष्ठत क्षणमेकं, यावत् साधवः समागच्छन्ति येन युष्मामिदृष्टैरिदानीमपि देवेन्द्रागमनमस्तीति विज्ञाय स्थैर्यमुत्पद्यते तेषामिति । ततखिदशपतिना प्रोक्तम्-"भदन्त ! करोम्येवम् , केवलं स्वाभाविकं मत्स्वरूपं दृष्वाऽल्पसत्वा निदानं करिष्यन्ति"। ततो गुरुणा प्रोक्तम्-'तर्हि निजागमनसूचकं किमपि चिह्नं कृत्वा व्रजत' । ततस्तस्योपाश्रयस्यान्यतोऽभिमुखं द्वारं कृत्वा गतस्त्रिदशपतिः। आगतैश्च साधुभिारान्यत्वदर्शनविस्मितैः पृष्टैः कथितं सर्व सूरिभिरिति । अन्यदा च ते विहरन्तो दशपुरनगरमागताः । इतश्च मथुरानगयां मातापित्रादिकमपि नास्ति इत्यादिनास्तिकवादं प्ररूपयन् वादी समुत्थितः । तत्र च प्रतिवादिनः कस्यचिदभावात् संधेनार्यरक्षितसूरयः एव सांपतं युगप्रधाना इति कृत्वा तत्समीपे प्रस्तुतव्यतिकरकथनाय साधुसङ्घाटकं प्रेषितम् । स्वयमतीववृद्धत्वाद् गन्तुमशक्तैः "वादलब्धिसंपन्नः" इति कृत्वा गोष्ठामाहिलो निरूपितः । तत्र च तेन गत्वा निगृहीतोऽसौ वादी । श्रावकैश्चायं तत्रैव वर्षाकालं कारितः। ___ इसश्चार्यरक्षितसूरिभिर्निजपट्टे दुर्चलिकापुष्पमित्रः स्थापयितुमध्यवसितः । शेषस्तु स्वजमभूतः साधुवर्गो गोष्ठामाहिलं, फल्गुरक्षितं वा, तमीहते । तत्तथ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373