________________
: 222 :
Jinabhadra Gaņi's [The seventh निगहितविभागाः कृता इति । अन्यदा च ते आर्यरक्षितसूरयो विहारक्रमेण मथुरानगरी गताः । तत्र च भूतगुहायां व्यन्तरगृहे स्थिताः ।
इतश्च शक्रो महाविदेहे सीमन्धरस्वामितीर्थकरसमीपे निगोदवक्तव्यतां श्रुत्वा विस्मितः। पृष्ठवान्-" किं भगवन् ? भरतक्षेत्रेऽपि सांप्रतममुमतीवसूक्ष्म निगोदविचारं कोऽपि बुध्यते प्ररूपयति च ? । ततो भगवता प्रोक्तम्-प्ररूपयन्त्यार्यरक्षितसूरयः "। एतच्च श्रुत्वा विस्मय-कौतुक-भक्तिभरपूर्यमाणमानसो देवेन्द्रः स्थविरब्राह्मणरूपं कृत्वा साधुषु भिक्षाचर्या गतेष्वार्यरक्षितसमीपमुपययौ । ततस्तेनार्यरक्षितसूरयो वन्दित्वा पृष्टाः-'भगवन् ? महान् व्याधिर्वर्तते, तेनाहमनशनं कर्तुमिच्छामि, तत् कथयत मम कियदायुष्कम् ? इति । ततो यविकेष्वायुःश्रेणावुपयोगं दत्त्वा सूरिभिातम्-नायं मनुष्यो व्यन्तरादिर्वा किन्तु द्विसागरोपमस्थितिकोऽसौ सौधर्माधिपतिः। ततश्च वार्धक्येनाधः पतिते करेण ध्रुवावुत्क्षिप्य निरीक्ष्य च प्रोक्तम् शको भवान् । एवं चाभिहिते तुष्टेन देवाधिपतिना निवेदितः सर्वोऽपि तीर्थकरसमीपनिगोदश्रवणादिव्यतिकरः । ततः पृष्टाः शक्रेण निगोदजीवाः । प्ररूपिताश्च विस्तरतः । ततस्तुष्टमानसेन सुरपतिना प्रणम्य "ब्रजामि" इति प्रोक्तेऽमिहितं गुरुभिः-'तिष्ठत क्षणमेकं, यावत् साधवः समागच्छन्ति येन युष्मामिदृष्टैरिदानीमपि देवेन्द्रागमनमस्तीति विज्ञाय स्थैर्यमुत्पद्यते तेषामिति । ततखिदशपतिना प्रोक्तम्-"भदन्त ! करोम्येवम् , केवलं स्वाभाविकं मत्स्वरूपं दृष्वाऽल्पसत्वा निदानं करिष्यन्ति"। ततो गुरुणा प्रोक्तम्-'तर्हि निजागमनसूचकं किमपि चिह्नं कृत्वा व्रजत' । ततस्तस्योपाश्रयस्यान्यतोऽभिमुखं द्वारं कृत्वा गतस्त्रिदशपतिः। आगतैश्च साधुभिारान्यत्वदर्शनविस्मितैः पृष्टैः कथितं सर्व सूरिभिरिति । अन्यदा च ते विहरन्तो दशपुरनगरमागताः ।
इतश्च मथुरानगयां मातापित्रादिकमपि नास्ति इत्यादिनास्तिकवादं प्ररूपयन् वादी समुत्थितः । तत्र च प्रतिवादिनः कस्यचिदभावात् संधेनार्यरक्षितसूरयः एव सांपतं युगप्रधाना इति कृत्वा तत्समीपे प्रस्तुतव्यतिकरकथनाय साधुसङ्घाटकं प्रेषितम् । स्वयमतीववृद्धत्वाद् गन्तुमशक्तैः "वादलब्धिसंपन्नः" इति कृत्वा गोष्ठामाहिलो निरूपितः । तत्र च तेन गत्वा निगृहीतोऽसौ वादी । श्रावकैश्चायं तत्रैव वर्षाकालं कारितः। ___ इसश्चार्यरक्षितसूरिभिर्निजपट्टे दुर्चलिकापुष्पमित्रः स्थापयितुमध्यवसितः । शेषस्तु स्वजमभूतः साधुवर्गो गोष्ठामाहिलं, फल्गुरक्षितं वा, तमीहते । तत्तथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org