________________
Vāda ]
: 223:
सर्वमपि गच्छमुपवेश्य सूरयः संबोधयन्ति, तद्यथा - " इह किल त्रयो घटा भृताः । तत्रैको वल्लानाम्, द्वितीयो तिलस्य, तृतीयस्तु घृतस्य । एतेषु चावाङ्मुखेषु कृतेषु वल्लाः सर्वेऽपि निर्गच्छन्ति । तैलं तु किञ्चिद् घटेऽपि लगति । घृतं तु बहुतरं तत्र लगति । तदहं दुर्बलिका पुष्पमित्रं प्रति सूत्राथ समाश्रित्य वल्लघटकल्पः संजातः सद्गतयोः समस्तयोरपि तयोस्तेन ग्रहणात् । फल्गुरक्षितं तु प्रति तिलघटकल्पोऽहं संपन्नः सर्वयोरपि सूत्रार्थयोस्नेनाग्रहणान् । गोष्ठामाहिलं तु प्रति घृतघटकल्पोऽहमभूवम्, बहुतरयोः सूत्रार्थयोर्ममापि पार्श्वेऽवस्थानात् । तस्माद् मद्गताशेषसूत्रार्थ संपन्नत्वाद् दुर्बलिकापुष्पमित्र एव भवतां सूरिर्भवतु " । 'इच्छामः" इति भणित्वा तैः सर्वेरपि प्रतिपन्नमिदम् । सूरिभिरण्यभिहितो दुर्बलिका पुष्पमित्रा " यथाऽहं वर्तितः फल्गुरक्षिते गोष्ठामाहिले च तथा भवता - मपि वर्तितव्यम् " । गच्छोऽप्यभिहितः - " यथा मया सार्धं भवद्भिर्वर्तितं तथाऽनेनापि सार्धं वर्तितव्यम् । अपि च, अहं कृतेऽकृते वा नारूष्यम्, अयं तु न सहिष्यति, ततः सुतरामस्य विनयेन वर्तितव्यम् " । इत्याद्यनुशास्तिं दत्त्वा भक्तं प्रत्याख्याय देवलोकमुपगताः सूरयः ।
ततः “
Nihnavavāda
गोष्ठा माहिलेन च श्रुतमिदं यथा - " गुरवः परलोकं गताः । ततो मथुरातः समागतेन पृष्टमनेन यथा - " को गणधरः स्वपदे सूरिभिनिवेशित: ? । " ततः सर्वोsपि वल्लादिघटप्ररूपणादिको व्यतिकरः समाकर्णितो 'लोकात् । तच्छ्रवणाश्चातीवदूनोऽसौ स्थित्वा पृथक् प्रतिश्रये, दुर्बलिकापुष्पमित्रोपाश्रये तच्चर्योपलम्भार्थं - गतः । तैश्च सर्वैरप्यभ्युत्थितोऽसौ भणितश्च यथा - ' तिष्ठत यूयमत्रेवोपाश्रये, किमिति पृथग् व्यवस्थिताः ? । तच्च नेच्छत्यसौ । पृथगुपाश्रयव्यवस्थितश्च दुर्बलिकापुष्पमित्रापवादग्रहणादिना व्युद्ग्राहयति साधून्, न च व्युद्ग्राहयितुं शक्नोति । दुर्बलिकापुप्पमित्रसमीपे चाभिमानतो न किञ्चित् शृणोति किन्तु व्याख्यानमण्डलिकास्थितस्य चिन्तनिकां कुर्वतो विन्ध्यस्यान्तिके समाकर्णयति । अन्यदा अष्टम- नवमपूर्वयोः कर्म - प्रत्याख्यानविचारेऽभिनिवेशाद् विप्रतिपन्नो वक्ष्यमाणनीत्या निवो जातः इति ॥
अथ प्रकृतगाथाक्षरार्थोऽनुश्रीयते - कालो मरणं तल्लक्षणो धर्मः पर्यायः कालधर्मस्तं गुरोरार्यरक्षितस्य श्रुत्वा, तथा पुष्पमित्रं च गच्छेऽधिपतिं स्थापितमाकर्ण्य गोष्ट माहिलो मत्सरितभावः संजातः || २५११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org