________________
:221:
Vada]
Nihnavavāda [श्रुत्वा कालधर्म गुरोर्गच्छे पुष्पमित्रं च । स्थापितं गुरुणा किल गोष्ठामाहिलो मत्सरितभावः ॥२१६॥२५११॥ 216. Srutvā kāladharmam guro-r-gacche Puspamitram ca | Sthāpitam guruņā kila Gusthā-Māhilo matsaritabhāvah.
(2511)] ____Trans. 216. Having heard, that the preceptor (Arya Raksitasūri) had attained nirvāṇa and that (Durbalikā) Puşpamitra had ( already ) been appointed by the preceptor (as an Ācārya) in the accha ( Congregation-Saigha ), Gostha-Mahila was really excited with jealousy. 2511.
टीका-२१६ इह च सर्वासामपि गाथानां. भावार्थ आर्यरक्षितकथानकादवसेयः । तच विस्तरतो मूलावश्यकादवगन्तव्यम् । संक्षेपतस्त्विहापि किश्चिदुच्यते । तद्यथा
दशपुरं नाम नगरम् । तत्र च सोमदेवो नाम ब्राह्मणः । तस्य च रुद्रसोमा नाम भार्या । सा च जिनवचनप्रतिबुद्धाश्राविका । तयोश्च रक्षितो नाम चतुदेशविद्यास्थानपारगः पुत्रो बभूव । तेन च मातृप्रेरितेन तोसलिपुत्राचार्याणां समीपे दीक्षा प्रतिपमा । एकादशाङ्गानि दृष्टिवादोऽपि यावान् गुरुसमीप आसीत् तावान् सर्वोऽपि गृहीतः। शेषस्त्वार्यवैरस्वामिनः समीपेऽधीतो यावद् नव पूर्वाणि, तथा चतुर्विंशतियविकानि । ततः फल्गुरक्षितो नाम तद्वन्धुकारणार्थ मात्राप्रेषितः प्रवाजितश्च । ततो द्वावपि मातापित्समीपे समायातौ । ततश्चार्यरक्षितेन मातापितरौ तथा मातुलगोष्ठामाहिलपमुखः सर्वोऽपि स्वजनवर्गः प्रवाजितः । एवमपरापरांश्च प्रवाजयत आर्यरक्षितसूरेर्महान् गच्छो जातः । तत्र च गच्छे दुर्बलिकापुष्पमित्र-घृतपुष्पमित्र-वस्त्रपुष्पमित्रसंज्ञात्रयः पुष्पमित्रा आसन् । तत्र दुर्बलिकापुष्पमित्रेण नवपूर्वाण्यधीतानि । इह च गच्छे चत्वारः पुरुषाः प्रधानतराः, तद्यथा-दुर्बलिकापुष्पमित्रः, विन्ध्यः, फल्गुरक्षितः, गोष्ठामाहिलश्चेति । तत्र रिभिलिकापुष्पमित्रो विन्ध्यस्य वाचनां दापितः। तस्य च तां प्रयच्छतो गुणनाभावादात्मनो नवमपूर्व गलति। ततः सूरिभिरेवंभूतस्यापि प्राज्ञस्स यदित्थंसूत्रार्थविस्मृतिः संपद्यते तदाऽशेषाणां सूत्राणां दुरुद्धरः सूत्रार्थः संपत्स्यते, इति विचिन्त्य पूर्वोतक्रमेणानुयोगः पार्थक्येन व्यवस्थापितः। नयाश्च प्रायो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org