Book Title: Shraman Bhagvana Mahavira Part 4
Author(s): Ratnaprabhvijay, D P Thaker
Publisher: Parimal Publication

Previous | Next

Page 263
________________ Vada ] Nihnavavāda :239: every portion it would be pervading the whole (of ¡iva) on account of (its) intermediary portions not being raised. And if it is (attached to) the external surface of jiva, it is clear that it does not follow (jiva ) to the next world on account of its inability to accompany (soul ) like the filth on the exterior limb. In that case, there would be attainment of mundane world by all without any reason. And those who have already been finally emancipated from this mundane world, will have to come down to the mundane world again (proving) thereby futility ( of righteous deeds ) (2522-2524) टीका-२२७-२२८-२२९ व्याख्या-"पुट्ठो जहा अबद्धो कंचुइणं" इत्यादिगाथायां कचुकवत् स्पृष्टमेव जीवे कर्म न तु बद्धमिति यदुच्यते भवता, तद् विचार्यते-किं कञ्चुकवत् स्पृष्टं कर्म जीवस्य प्रतिप्रदेशं वृत्तं सदुच्यते, आहोस्विजीवपर्यन्ते त्वक्पर्यन्त एव वृत्तं स्पृष्टमिष्यते ? इति द्वयीगतिः। तत्र यदि पतिदेशं वृत्त्वत्वात् स्पृष्टमिष्टम् , तहिं जीवे सर्वगतं कर्म मामोति, नभोवत् । कुतः सर्वगतम् ? इत्याह-" तदन्तरालेत्यादि” तस्य जीवस्यान्तरालं मध्यं तदन्तरालं तस्यानवस्थातः तस्य कर्मव्याप्तस्यानवस्थानादनुद्धारणादित्यर्थः । न हि पतिप्रदेशं वृत्ते कर्मणि जीवस्य कोऽपि मध्यप्रदेश उद्धरति । येन कर्मणस्तत्रासर्वगतत्वं स्यात् । तस्मादाकाशेनेव कर्मणा जीवस्य प्रतिदेशं व्याप्तत्वात् तस्य जीवे सर्वगतत्वं सिद्धमेव । एवं च सति साध्यविकलत्वात् क क दृष्टान्तोऽसंबद्ध एव प्रामोति, साध्यस्य यथोक्तस्पर्शनस्य कञ्चुकेऽभावादिति । द्वितीयविकल्पमधिकृत्याह-'अहेत्यादि' अथ जीवस्य बहिस्स्वपर्यन्ते वृत्तत्वात् कञ्चुकवत् स्पृष्टं कर्मेष्यते, तर्हि भवाद् भवान्तरं संक्रामतोऽन्तराले तद् नानुवर्तते तदनुवत्तिर्न प्रामोति त्वपर्यन्ते वृत्तत्वेन तदनुगमाभावात् , बाह्याङ्गमलवदिति सुव्यक्तमेव, बालानामपि प्रतीतत्वादिति । भवत्वननुवृत्तिः कमों भवान्तराले को दोष ? इत्याह-" एवमित्यादि" एवं कर्मोऽननुवृत्तौ सत्यां सर्वेषामपि जीवानां विमोक्षः संसाराभावः प्राप्नोति, संसारकारणस्य कर्मणोऽभावात् । अथ निष्कारणोऽपि संसार इष्यते, तर्हि ये व्रततपो-ब्रह्मचर्यादिकष्टानुष्ठानानि कुर्वन्ते तेषामपि सर्वेषां संसार एव स्यात् , निष्कारणत्वाविशेषात् । निष्कारणं च जायमानं भवमुक्ताना. मपि सिद्धानामपि पुनरपि संसरणं संसारः स्यादिति मुक्तावप्यनाश्वास इति ॥ २५२२॥२५२३॥२५२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373