________________
यद्वाऽणुका युगन्धरी इत्यपि कापि दृश्यते ७, अतसी-प्रतीता १३ हरिमन्थाः-कृष्णचणकाः १४ त्रिपुटको-10 मालवके प्रसिद्धो धान्यविशेषः १६ निष्पावाः-वल्लाः १६ सिलिन्दा-मकुष्टाः १७ राजमाषाः-चपलकाः १८ इक्खू:-बरट्टिका संभाव्यते १९ मसूरतुबरीधान्यद्वयं मालवकादौ प्रसिद्धं २३ कलायका-वृत्तचनकाः २४ । रत्नानि चतुर्विशतिर्यथा-"रयणाई चउच्चीसं सुवन्न १ तउरतंब ३ रयय ४ लोहाई ५। सीसग ६ हिरण्ण ७ पासाण ८ वइर ९ मणि १० मोत्तिअ ११ पवालं १२॥१॥ संखो १३ तिणिसा १४ गुरु १५ चंदणाणि १६ वत्था १७ मिलाणि १८ कट्ठाई १९। तह चम्म २० दंत २१ वाला २२ गंधा २३ दवोसहाई च २४ ॥२॥" प्रसिद्धान्यमुनि, नवरं रजतं-रूप्यं हिरण्यं-रूपकादि पाषाणा विजातिरत्नानि मणयो-जात्यानि तिनिसो-वृक्षविशेषः1%
अमिलानि-ऊर्णावस्त्राणि काष्ठानि-श्रीपादिफलकादीनि चर्माणि-सिंहादीनां दन्ता-गजादीनां वाला:-चम| र्यादीनां द्रव्योषधानि-पिप्पल्यादीनि, स्थावरं त्रिधा, द्विपदं च द्विधा, यथा-"भूमी घरा य तरुगण तिविहं पुण थावरं मुणेअवं । चक्कारबद्ध माणुस दुविहं पुण होइ दुपयं तु ॥१॥” भूमि:-क्षेत्रं गृहाणि-प्रासादाः तरुगणानालिकेर्याचारामा इति त्रिधा स्थावरं,चक्रारबद्धं-गच्यादि मानुषं-दासादीति द्विधा द्विपदं, चतुष्पदं दशधा, यथा"गावी महिसी उट्टी अय एलग आस आसतरगा य। घोडग गद्दह हत्थी चउप्पयं होइ दसहा उ ॥१॥" | एते प्रतीता, नवरम् अश्वाः-वाल्हीकादिदेशोत्पन्ना जात्याः अजात्या घोटकाः अश्वतरा-वेसराः नानाविधमपि कुप्यमेकमेव यथा-"नाणाविहोवगरणमेगविहं कुप्पलक्खणं होइ। एसो अत्थो भणिओ छविह चउसहिभेओउ
Jain Education
anal
For Private Personal Use Only
N
w.jainelibrary.org