Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 414
________________ श्राद्धप्रतिसूत्रम् विभागस्वरूपम् ॥१७४॥ यति पारणकवानन्यो वा तस्मै तद्दीयते, पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एकोन युज्यते प्रेषयितुं. साधुः पुरतः श्रावकस्तु मार्गतो गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते, यदि निविशते तदा भव्यं अथ न निविशते तथाऽपि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानं च खयमेव ददाति भाजनं वा धारयति स्थित एव वाऽऽस्ते यावद्दीयते, साधू अपि पश्चात्कर्मपरिहरणार्थ सावशेषंगृहीतः,ततो वन्दित्वाविस-19 जयति अनुगच्छति च कतिचित्पदानि ततः खयं भुड़े, यच्च साधुभ्यो न दत्तं तच्छ्रावकेण न भोक्तव्यं, यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयतियदि साधवोऽभविष्यंस्तदा निस्तारितोऽहमभविष्यमिति, एष पोषधपारणके विधिः, अन्यदा तु साधुभ्यो दत्त्वा भुते भुक्त्वा वा ददाति, एवं वस्त्रव्यापारणादावपि यथाह ज्ञेयं, यदाह धर्मदासगणि:-"पढमं जईण दाऊण अप्पणा पणमिऊण पारेइ । असई असुविहिआणं भुंजेइ अ कयदिसालोओ॥१॥ साहूण कप्प|णिज्जं जं नवि दिन्नं कहिंचि किंपि तहिं । धीरा जहुत्तकारी सुसावगातं न भुंजंति ॥२॥ वसहीसयणासणभत्तपाणभेसज्जवत्थपत्ताई । जइपि न पजत्तधणो थोवाउवि थोवयं देह ॥३॥” अन्यत्राप्युक्तम्-"अहङ्ग्यः प्रथमं निवेद्य सकलं सत्साधुवर्गाय च, प्राप्ताय प्रविभागतः शुचिधिया दत्त्वा यथाशक्तितः । देशायातसधर्मचारिभिरलं सार्द्ध च काले खयं, भुञ्जीतेति सुभोजनं गृहवतां पुण्यं जिनैर्भाषितम् ॥१॥” एतताराधना-15 यैव प्रत्यहं श्रावकेण 'फासुएणं एसणिज्जेणं' इत्यादिना गुरूणां निमन्त्रणं क्रियते ॥ अत्रातिचारानिन्दितुमाह ॥१७४॥ Jain Educatio n For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474