Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
'आवस्से 'ति, श्रावको यद्यपि बहुरजाः - बहुबध्यमानकर्मा बहुरतो वा विविधसावद्यारम्भासक्तस्तथाऽपीत्यध्याहारादावश्यकेन- अवश्यंकर्त्तव्येन एतेनेति- सामायिक १ चतुर्विंशतिस्तव २ वन्दनक ३ प्रतिक्रमण ४कायोत्सर्ग ५ प्रत्याख्यान ६ रूपेण षड्विधभावावश्यकेन न तु दन्तधावनादिद्रव्यावश्यकेन 'दुःखानां' शारीराणां मानसानां च 'अन्तक्रियां' क्षयं करोति 'अचिरेण' स्तोकेनैव कालेन तद्भवादिनाऽपीति संटङ्कः, इह च यद्यपि दुःखानामन्तक्रियाया अनन्तरहेतुर्यथाऽऽख्यातचारित्रं, तल्लाभे एवान्तक्रियाभावात्, तथाऽपि परम्परा हेतुरिदमपि जायते, अयमर्थ:- यतिवृत्तदौहृदरूपेण सामायिकाद्यावश्यकेनाभ्यस्यमानेन सात्मीकृत्य सर्वविरतिं तदाराधनतस्तद्भवेऽपि श्रावकस्य मोक्षः स्यात्, सामायिकाद्यावश्यकेनैव वा गृहिणोऽपि भावविशुद्ध्या भरतचक्रथादेरिव | केवलोत्पत्तिः संभवति, श्रूयन्ते च सामायिकादिपदमात्रादप्यनन्ताः सिद्धाः, पठन्त्यपि - "जोगे २ जिणसासमि दुक्खक्खयं परंजंता । इक्विक्कमि अनंता वहता केवल पत्ता ॥ १ ॥" इत्येकचत्वारिंशगाथार्थः ॥ ४१ ॥ अथ | मनोवाक्काय प्रवृत्तीनामतिसूक्ष्मत्वादिन्द्रिययानां चातिचपलत्वात् जीवस्य चातिप्रमादबहुलत्वात्कियन्तोऽप| राधाः स्मृतिपथमायान्ति?, आलोचनाहश्च सर्वे, यद्भगवद्वचः - " पायच्छित्तस्स ठाणाई संखाईआई गोअमा ! अणालोइअं तु इक्कंपि ससलं मरणं मरइ " अतो विस्मृतातिचारं सामान्येन प्रतिक्रमितुमाह
आलोअणा बहुविहानय संभरिआ पडिकमणकाले । मूलगुण उत्तरगुणे तं निंदे तं च गरिहामि ४२
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474