Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 467
________________ अकाउस्सग्गो परमिट्टीणं च कयनमुक्कारो । वेयावच्चगराणं दिज्ज थुई जक्खपमुहाणं ॥ १ ॥” प्रकरणकृतः श्रीहरिभद्रसूरयोऽप्याहुर्ललितविस्तरायां- "चतुर्थी स्तुतिर्वैयावृत्त्यकराणामिति, तदेवं प्रार्थनाकरणेऽपि न | काचिदयुक्तिरिति सप्तचत्वारिंशगाथार्थः ॥ ४७ ॥ ननु येनैतानि व्रतानि स्वीकृतानि स प्रतिक्रामतु न त्वन्यः | अस्वीकृतेऽतिचारासम्भवाद्, ग्रामसद्भावे हि सीमाकरणमर्हति, तदयुक्तं, द्वावपि प्रतिक्रामेतां यतो नातिचारेष्वेव प्रतिक्रमणं, किन्तु चतुर्षु स्थानेष्वपि तान्येवाह पडिसिद्धाणं करणे किच्चाणमकरणे अ पडिक्कमणं । असद्दहणे अ तहा विवरीअपरूवणाए अ ॥४८॥ 'पडिसिद्धाणं' इति । श्राद्धस्यापि सिद्धान्ते प्रतिषिद्धानि स्थूलप्राणातिपातादीन्यष्टादश पापस्थानानि तेषु प्राणातिपातादयः पञ्च क्रोधाद्याश्च चत्वारः प्रागुक्ताः, एवं प्रेम अव्यक्तमायालो भोदयरूपं १० द्वेषः - अव्यक्तक्रोधमानोदयरूपः ११ अभ्याख्यानं - असद्दोषाधिरोपणं १२ रत्यरती- इष्टानिष्टेषु प्रीत्यप्रीती १३।१४ पैशून्यं - द्रोहेण परदोषोधनं १५ परपरिवादो-मौखर्येण परनिन्दनं १६ मायामृषावादी- मायया मृषाभाषणं १७ मिथ्यात्वं प्रागुक्तं १८ उच्चैः खरराट्यादिरूपः कलहोऽपि पापस्थानेषु कचित् पठितः श्रूयते, तत्र रत्यरत्योरेकत्वगणनं संभाव्यते, एवं प्रतिषिद्धानां करणे १ तथा कृत्यानां 'नवकारेण वियोहो' इत्यादिश्रुतोक्तश्राद्धदिनकृत्यानां स्वीकृतदे वार्थादिनियमानां वाऽकरणे, दिनकृत्यव्यक्तिस्तु मत्कृतश्राद्धविधिप्रकरणवृत्तेर्ज्ञेया २ तथा आज्ञाग्राह्याणां Jain Educamational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474