Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
'दिवसाः' अहोरात्राणि, बोधिप्रार्थनवन्न दोषायेदमिति षट्चत्वारिंशगाथार्थः ॥ ४६ ॥ अथ मङ्गलपूर्व जन्मान्तरेऽपि समाधिं बोधिं च प्रार्थयते
मम मंगलमरिहंता सिद्धा साहू सुअं च धम्मो अ । सम्मद्दिट्ठी देवा दिंतु समाहिं च बोहिं च ४७
'मम मंगले 'ति ॥ मम मङ्गलमर्हन्तः सिद्धाः साधवः श्रुतं च-अङ्गोपाङ्गाद्यागमः धर्मः श्रुतचारित्रधर्मात्मकः, चशब्दाल्लोकोत्तमाश्च शरणं चैत इति द्रष्टव्यं, 'चत्तारि मंगलं' इत्यादौ चत्वार्येव मङ्गलान्युक्तानि अत्र तु धर्मान्त|र्गतत्वेऽपि श्रुतस्य मङ्गलतया पृथगुपादानं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थं, तदाहु:-"हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दडो, घावमाणो अ अंधओ ॥ १ ॥" इत्यादि, तथा"नग्नत्वे पशवो जलैर्जलचराः सर्वे जटाभिर्वटा, वल्कैर्भुजलताः सुतैः करिखराः श्वानादयो भस्मभिः । वह्नीनां ज्वलनैर्जना हरिवृषाः संदानिता रज्जुभिः खर्गं यान्ति कथं न ते यदि वृथा ज्ञानक्रिये निष्प्रमे ? ॥ १ ॥ " आचाराङ्गेऽपि - "अणाणाए एगे सोवद्वाणा आणाए एगे निरुवद्वाणा एवं ते मा होउ" त्ति, तथा सम्यग्दृष्टयः - अर्ह त्याक्षिका देवा देव्यश्चेत्येकशेषाद्देवा-धरणेन्द्राम्बिकायक्षादयो 'ददतु' प्रयच्छन्तु 'समाधि' चित्तस्वास्थ्यं, समा धिर्हि मूलं सर्वधर्माणां स्कन्ध इव शाखानां शाखा वा प्रशाखानां पुष्पं वा फलस्य बीजं वाऽङ्कुरस्य, चित्तखास्थ्यं विना विशिष्टानुष्ठानस्यापि कष्टानुष्ठानप्रायत्वात्, समाधिश्चाधिव्याधिभिर्विधूयते, तन्निरोधश्च तद्धेतुकोपसर्ग
ional
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474