Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धप्र
ति०सूत्रम्
॥ १९५॥
Jain Educatio
पाठे सप्रतिचारं, प्रतिचारः - प्रतिचारणा - लाभार्थिवणिग्वदायव्ययतोलनया प्रवृत्तिः, तदाह - " कह कह करेमि | कह मा करेमि कह कह कयं बहुकयं मे । जो हिअइ संपसारं करेइ सो अइकरेइ हिअं ॥ १ ॥” सोत्तरगुणं च| गुरूपदिष्टप्रायश्चित्तचरणान्वितं 'क्षिप्रं' शीघ्रं श्रावकः 'उपशमयति' निष्प्रतापं करोति क्षपयति वा, हुशब्दोऽत्र एवार्थे तत उपशमयत्येवेत्यर्थः, अत्र दृष्टान्तमाह - 'व्याधिमिव' साध्यरोगं कासश्वासज्वरादिकं यथा सुशि| क्षितो - रोगनिदानचिकित्सादिकुशलो वैद्यो वमनविरेचनलङ्घननिवातशयनादिनोपशमयतीति सप्तत्रिंशगाथार्थः ॥ ३७ ॥ दृष्टान्तान्तरेण पूर्वोक्तमेव स्पष्टयति
1
जहा विसं कुट्टगयं, मंतमूलविसारया । विज्जा हणंति मंतेहिं, तो तं हवइ निविसं ॥ ३८ ॥ 'जहा वी 'ति, विषं द्विधा स्थावरं जङ्गमं च, स्थावरं द्रुमादीनां जङ्गमं वृश्चिकसर्पादीनां ततो यथा विषं | 'कोष्ठगतं' उदरगतं व्याप्तशरीरमित्यर्थः मन्त्रा - गारुडादयो मूलानि त्रपुष्यादीनां, अनेन तत्राद्यपि सूचितं, तेषु | विशारदा-गुर्वाम्नायाभ्यासादिना दृष्टप्रत्ययाः 'वैद्याः' मन्त्रवादिनः 'घ्नन्ति' नाशयन्ति मन्त्रैस्ततस्तत्पात्रं निर्विषं भवति, यद्यप्यसौ विषार्त्तस्तेषां मन्त्राक्षराणां न तथाविधमर्थमवबुध्यते तथाऽप्यचिन्त्यो मणिमत्रौषधीनां प्रभाव | इति तदक्षरश्रवणेनापि तस्य गुणः संपनीपद्यते, यथा हि स्थविरापुत्रस्य हंसस्य दुष्टादिष्टस्य निश्चेष्टस्य मात्रिकैस्त्यक्तस्य शोकार्त्तयजनन्या मुहुर्मुहुर्हस ! हंस ! इति पुत्रनामग्रहणपूर्व रात्रौ नानाविलापकरणे हंसेति
ational
For Private & Personal Use Only
३७गाथायां प्रतिक्र| मणादेरुपशमः पाप
स्य ३८ गाथायां मंत्रविषदृष्टा
न्तः
॥ १९५॥
ww.jainelibrary.org

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474