Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 443
________________ Jain Educat सप्ततिभेदं यतः - " वय ५ समणधम्म १० संजम १७ बेआवच्चं च १० वंभगुत्तीओ ९ । नाणाइतिअं ३ तव १२ कोहनिग्गहाई ४ चरणमे ॥ १ ॥ " तत्र श्रमणधर्मो दशधा, यतः- “खंती १ अज्जव २ मद्दव ३ मुत्ती ४ तव ५ संजमे अ ६ बोद्धवे । सचं ७ सोअं ८ आकिंचणं च ९ बंभं च १० जइधम्मो ॥ १ ॥" 'मुक्ति'त्ति मुक्ति: निर्लोभता 'सोअ'त्ति शौचं संयमं प्रति निरुपलेपता, सा चादत्तादान परिहाररूपा, लोभात्तों हि परधनं जिघृक्षन् | संयमं मलिनयति, लौकिका अध्याहुः - "सर्वेषामपि शौचानामर्थशौचं परं स्मृतम् । योऽर्थेषु शुचिः स शुचिर्न | मृद्वारिशुचिः शुचिः ॥ १॥” संयमः सप्तदशधा, यतः - " पञ्चाश्रवाद्विरमणं ५ पञ्चेन्द्रियनिग्रहः १० कषायजयः १४ । दण्डयविरति १७ चेति संयमः सप्तदशभेदः ॥ १ ॥” यद्वा - " पुढवि १ दग २ अगणि ३ मारुअ ४ वणस्सइ ५ वितिचउपणिदि ९ अज्जीवे १० । पेहो ११ पेह १२ पमजण १३ परिठवण १४ मणो १५ वई १६ काए १७ ॥ १ ॥" व्याख्या - पृथिव्यादिनवविधजीवानां रक्षेति नवधा, अजीवसंयमः सत्त्वोपघात हेतूनां पुस्तकादीनामग्रहणरूपः, यतः - " जइ तेसिं जीवाणं तत्थगयाणं तु सोणिअं हुज्जा । पीलिज्जते धणिअं गलिज्जतं अक्खरे | फुसि ॥ १ ॥” दुष्षमादोषात्प्रज्ञाबलहीन शिष्यानुग्रहार्थं यतनया प्रतिलेखनाप्रमार्जनापूर्वं ग्रहणरूपो वा १०, प्रेक्षासंयमः प्रत्युपेक्ष्य प्रमार्ण्य च स्थित्यादिकरणम् ११, उपेक्षासंयमः सीदतां संयतानां चिन्ता असं यतानां तु न१२, | प्रमार्जनासंयमः सागारिके सति रजोहरणेन पदोरप्रमार्जनं (असति तु प्रमार्जनं) १३, परिष्ठापना संयमस्त्याज्यस्य | विधिना त्याग : १४, मनसो द्रोहाभिमानेष्यादिभ्यो निवृत्तिः धर्मध्यानादिषु च प्रवृत्तिर्मनः संयमः १५, वाचो national For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474