Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यदेयद्व्ये सति यत्संविभागोन कृतस्तन्निन्दामि गहें चेत्यन्वयः, इह च चरणमध्ये तपसः सङ्घहे सत्यपि पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्ते इति प्राधान्यख्यापनार्थ, यत्परमार्षम्-"कडाणं कम्माणं पुश्विं दुञ्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो नत्थि अवेइत्ता, तवसा वा झोसइत्ता” इति द्वात्रिंशगाथार्थः ॥ ३२॥
॥ इतिश्रीतपागच्छनायकपरमगुरुश्रीसोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरमूरिविनेयोपाध्यायश्रीरत्नशेखरगणिविरचितायां श्राद्धप्रतिक्रमणमूत्रवृत्तौ शिक्षावताधिकारश्चतुर्थः ॥४॥ श्री॥
एवं द्वादशवतातिचारान् प्रतिक्रम्य संलेखनातिचारान् परिजिहीर्घस्तदभवने प्रार्थनामाहइहलोए परलोए जीविअमरणे अ आससपओगे। पंचविहो अइआरोमा मज्झं हुज मरणंते ॥३३॥ ।
'इहलोए' इति,आशंसाप्रयोग इति सर्वन्न योज्यं, प्रतिक्रामकमाश्रित्येहलोको-मनुष्यलोकस्तत्राशंसा-अभिलाषः प्रेत्य मानुषः स्यां राजा वा श्रेष्ठी वेत्यादिरूपस्तस्याः प्रयोगो-व्यापार इहलोकाशंसाप्रयोगः १, परलोकोदेवभवादिस्ततो देवो देवेन्द्रो वा भवेयमित्यादि परलोकाशंसाप्रयोगः २, तथा कश्चित्कृतानशनः प्रतिदिनं नानानगरग्रामसमागच्छदतुच्छश्रीसङ्कविधीयमाननिःसमानमहोत्सवपरम्परानिरीक्षणादनेकनागरिकलोकपारम्भितनृत्यकलाकौशल समुद्भूतप्रभूतशोभानिभालनान्मृदुमृदङ्गरणद्वेणुवीणापटुपटहप्रमुखसुखकारिवाद्यमाननानावाद्यवृन्दनिनादाकर्णनादहम्पूर्विकापूर्वकविवेकिजननिकरनिरन्तरक्रियमाणव्यतीतप्रमाणवस्त्रमाल्यादिसत्का
Jain Education
For Private & Personel Use Only
Panjainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474