SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ यदेयद्व्ये सति यत्संविभागोन कृतस्तन्निन्दामि गहें चेत्यन्वयः, इह च चरणमध्ये तपसः सङ्घहे सत्यपि पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्ते इति प्राधान्यख्यापनार्थ, यत्परमार्षम्-"कडाणं कम्माणं पुश्विं दुञ्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो नत्थि अवेइत्ता, तवसा वा झोसइत्ता” इति द्वात्रिंशगाथार्थः ॥ ३२॥ ॥ इतिश्रीतपागच्छनायकपरमगुरुश्रीसोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरमूरिविनेयोपाध्यायश्रीरत्नशेखरगणिविरचितायां श्राद्धप्रतिक्रमणमूत्रवृत्तौ शिक्षावताधिकारश्चतुर्थः ॥४॥ श्री॥ एवं द्वादशवतातिचारान् प्रतिक्रम्य संलेखनातिचारान् परिजिहीर्घस्तदभवने प्रार्थनामाहइहलोए परलोए जीविअमरणे अ आससपओगे। पंचविहो अइआरोमा मज्झं हुज मरणंते ॥३३॥ । 'इहलोए' इति,आशंसाप्रयोग इति सर्वन्न योज्यं, प्रतिक्रामकमाश्रित्येहलोको-मनुष्यलोकस्तत्राशंसा-अभिलाषः प्रेत्य मानुषः स्यां राजा वा श्रेष्ठी वेत्यादिरूपस्तस्याः प्रयोगो-व्यापार इहलोकाशंसाप्रयोगः १, परलोकोदेवभवादिस्ततो देवो देवेन्द्रो वा भवेयमित्यादि परलोकाशंसाप्रयोगः २, तथा कश्चित्कृतानशनः प्रतिदिनं नानानगरग्रामसमागच्छदतुच्छश्रीसङ्कविधीयमाननिःसमानमहोत्सवपरम्परानिरीक्षणादनेकनागरिकलोकपारम्भितनृत्यकलाकौशल समुद्भूतप्रभूतशोभानिभालनान्मृदुमृदङ्गरणद्वेणुवीणापटुपटहप्रमुखसुखकारिवाद्यमाननानावाद्यवृन्दनिनादाकर्णनादहम्पूर्विकापूर्वकविवेकिजननिकरनिरन्तरक्रियमाणव्यतीतप्रमाणवस्त्रमाल्यादिसत्का Jain Education For Private & Personel Use Only Panjainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy