________________
श्राद्धप्र
ति० सूत्रम्
॥ १९०॥
रसन्मान वन्दनाद्यवलोकनात्सुविहितगीतार्थयतिप्रारब्धश्री सिद्धान्तपुस्तकवाचनादिवहुमानाविर्भावनाद्भूयोभूयः सम्भूयभूयस्तरधार्मिकधुरीणप्रवीण साधर्मिक श्रेणिप्रणीयमानसद्गुणोपबृंहणाश्रवणाचैवं मन्यते यदुत प्रतिपन्नानशनस्यापि मम जीवितं सुचिरं श्रेयो यतो मामुद्दिश्यैवंविधा समृद्धिरिति जीविताशंसाप्रयोगः ३, तथा कश्चित् कर्कशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावात् क्षुदाद्यान्तों वा चिन्तयति-कदा म्रियेऽहमिति मरणाशंसाप्रयोगः४, चशब्दात्कामभोगाशंसाप्रयोगः, तत्र कामौ - शब्दरूपे भोगा - गन्धरसस्पर्शास्तेषामाशंसाप्रयोगो यथा ममास्य तपसः प्रभावात् प्रेत्य रूपसौभाग्यादि भूयात् ५ एष पञ्चविधोऽतिचारो मा मम भूयान्मरणान्ते चरमोच्छ्रासमपि यावदित्यर्थः उपलक्षणं चैतत् तेन सर्वस्मिन्नपि धर्मानुष्ठाने ऐहलौकिकी पारलौकिकी वा सर्वथाऽप्याशंसा वर्जनीया, यत्सूत्रं - "नो इहलोगट्टयाए आधारमहिट्टिजा नो परलोगट्टयाए आयारमहिद्विजा नो किन्तिवण्णसहसिलोगट्टयाए आधारमहिद्विजा नन्नत्थ आरिहंतेहिं हेहिं आयारमहिट्टिज्जा । " तथा "आशंसया विनिर्मुक्तोऽनुष्ठानं सर्वमाचरेत् । मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः ॥ १ ॥” आशंसां कुर्वाणो हि प्रकृष्टधर्माराधकोऽपि हीनमेव फलं लभते, धर्मस्य चिन्तामणेरिवाशंसारूपतुच्छमूल्येन विक्रीतत्वात्, आह च"सीलवयाई जो बहुफलाई हंतॄण सुक्खमहिलसह । धिइदुब्बलो तवस्सी कोडीए कागिणिं किणइ ॥ १॥" अ एव निदानान्यद्भिः सर्वधा निषिद्धानि तानि च नव, यथाऽऽह - "निव १ सिट्ठि २ इत्थि ३ पुरिसे ४ परपविआरे अ ५ सपविआरे अ ६ । अप्परयसुर ७ दरिद्दे ८ सड्ढे ९ हुजा नव निआणा ॥ १ ॥ " व्याख्या - कश्चित्साध्वा
Jain Education International
For Private & Personal Use Only
३३गाथायां संलेखनातिचा.
राः नवनि
दानानि
॥१९०॥
www.jainelibrary.org