________________
बिन्दन् श्रवति यतस्तया वया सुवर्णसिद्धिः स्यात् ६, मायासज्ञा वल्ली फलानि पत्रैराच्छादयति ७, लोभसज्ञा बिल्वपलाशादयो मूलादि निधानोपरि क्षिपन्ति ८, लोकसञ्ज्ञा कमलानि रात्री करवाणि तु दिवा सङ्कचन्ति ९, ओघसञ्ज्ञा वल्ली मार्ग त्यक्त्वा वृतिवृक्षाद्यारोहति १० । पञ्चदश सञ्ज्ञा यथा-"आहार १ भय २५ परिग्गह ३ मेहुण ४ सुह ५ दुक्ख ६ मोह ७ वितिगिच्छा ८ तह कोह ९माण १० माया ११ लोभे १२ सोगे अ१३ धम्मो १४ घे १५॥१॥” एता एव लोकसज्ञया सह षोडश, तद्व्याख्या चाचाराङ्गवृत्त्यन्तर्गता यथाआहारसञ्ज्ञा-आहाराभिलाषः, सा च तेजसशरीरनामकर्मोदयादसातोदयाच भवति १, भयसञ्ज्ञा त्रास-10 रूपा २, परिग्रहसञ्ज्ञा-मूछोरूपा ३, मैथुनसज्ञा-ख्यादिवेदोदयरूपा, एतास्तिस्रो मोहनीयोदयात् ४ सुखदु:खसखे सातासातानुभवरूपे वेदनीयोदयजे ६, मोहसज्ञा-मिथ्यादर्शनरूपा मोहोदयात् ७, विचिकित्सासज्ञा-चित्तविकृतिरूपा मोहोदयाज्ञानावरणीयोदयाच ८, क्रोधसञ्ज्ञा अप्रीतिरूपा ९मानसञ्ज्ञा-गर्वरूपा १० मायासज्ञा वक्रतारूपा ११, लोभञ्ज्ञा गृद्धिरूपा १२, शोकसज्ञा-विप्रलापवैमनस्यरूपा १३, एताः पञ्च मोहोदयजाः, लोकसञ्ज्ञा स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा-"न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः | विप्रा देवाः, काकाः पितामहाः, बहिणां पक्षवातेन गर्भ" इत्येवमादिका ज्ञानावरणक्षयोपशमान्मोहोदयाच
भवन्ति १४, धर्मसञ्ज्ञा-क्षमाद्यासेवनरूपा १५, ओघसञ्ज्ञा-वल्लिवितानारोहणादिलिङ्गा ज्ञानावरणीयादिकर्म1क्षयोपशमोत्था द्रष्टव्या १६॥ तथा कषः-संसारस्तस्यायो-लाभो येभ्यस्ते कषायाः क्रोधमानमायालोभलक्षणा,
भा.प्र.सू.३३
For Private
Personal Use Only
ANw.jainelibrary.org