Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 413
________________ उक्तमेकादशं व्रतमथातिथिसंविभागाख्यं द्वादशं शिक्षात्रतं तुर्य, तत्र तिथिपर्वादिलौकिकव्यवहारपरिवजको भोजनकालोपस्थायी अतिथिरुच्यते, स च श्रावकस्य साधुः, उक्तञ्च-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः॥१॥" तस्यातिथेः सङ्गत:-आधाकर्मादिद्विचत्वारिंशद्दोषविरहितो विशिष्टो भागः-पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागः, अयमर्थः-न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां चानपानवस्त्रादीनां देशकालश्रद्धासत्कारक्रमपूर्वकं परया भक्त्या आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः, तत्र शाल्यादिनिष्पत्तिभाग देशः १ सुभिक्षदुर्भिक्षादिः कालः २ विशुद्धचित्तपरिणामः श्रद्धा ३ अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः ४ यथासम्भवं पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः ५ तत्पूर्वकं देशकालाद्यौचित्येनेत्यर्थः, यदाह-"पहसंतगिलाणेसुं आगमगाहीसु तह य कयलोए । उत्तरपारणगंमि अ दिन्नं सुबहुप्फलं होइ ॥१॥” आवश्यकचूर्णिपञ्चाशकचूाद्युक्त इह चायं 8॥ विधिः-श्रावकेण पोषधपारणके नियमात्साधुभ्यो दत्त्वा भोक्तव्यं, कथं ?, यदा भोजनकालो भवति तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून्निमन्त्रयते-भिक्षां गृह्णीतेति, साधूनां च तत्र का सामाचारी ?, उच्यते, तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्यवेक्षते माऽन्तरायदोषाः स्थापनादोषा वाऽभूवन्निति, स च यदि प्रथमायां पौरुष्यां निमन्त्रयते अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद्गह्यते, अथ नास्त्यसौ तदा न गृह्यते यतस्तद्वोढव्यं भवति, यदि पुनर्घनं लगेत्तदा गृह्यते संस्थाप्यते च, यो वोघाटपौरुष्यां पार Jain Education anal For Private Personal Use Only

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474