________________
उक्तमेकादशं व्रतमथातिथिसंविभागाख्यं द्वादशं शिक्षात्रतं तुर्य, तत्र तिथिपर्वादिलौकिकव्यवहारपरिवजको भोजनकालोपस्थायी अतिथिरुच्यते, स च श्रावकस्य साधुः, उक्तञ्च-"तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः॥१॥" तस्यातिथेः सङ्गत:-आधाकर्मादिद्विचत्वारिंशद्दोषविरहितो विशिष्टो भागः-पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागः, अयमर्थः-न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां चानपानवस्त्रादीनां देशकालश्रद्धासत्कारक्रमपूर्वकं परया भक्त्या आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः, तत्र शाल्यादिनिष्पत्तिभाग देशः १ सुभिक्षदुर्भिक्षादिः कालः २ विशुद्धचित्तपरिणामः श्रद्धा ३ अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः ४ यथासम्भवं पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः ५ तत्पूर्वकं देशकालाद्यौचित्येनेत्यर्थः, यदाह-"पहसंतगिलाणेसुं आगमगाहीसु तह य कयलोए । उत्तरपारणगंमि अ दिन्नं सुबहुप्फलं होइ ॥१॥” आवश्यकचूर्णिपञ्चाशकचूाद्युक्त इह चायं 8॥ विधिः-श्रावकेण पोषधपारणके नियमात्साधुभ्यो दत्त्वा भोक्तव्यं, कथं ?, यदा भोजनकालो भवति तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून्निमन्त्रयते-भिक्षां गृह्णीतेति, साधूनां च तत्र का सामाचारी ?, उच्यते, तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्यवेक्षते माऽन्तरायदोषाः स्थापनादोषा वाऽभूवन्निति, स च यदि प्रथमायां पौरुष्यां निमन्त्रयते अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद्गह्यते, अथ नास्त्यसौ तदा न गृह्यते यतस्तद्वोढव्यं भवति, यदि पुनर्घनं लगेत्तदा गृह्यते संस्थाप्यते च, यो वोघाटपौरुष्यां पार
Jain Education
anal
For Private Personal Use Only