Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 393
________________ 'संथारुच्चारे'ति, संस्तारो-दर्भतृणकम्बलीवस्त्रादिः उपलक्षणत्वात् शय्यापीठफलकादि च 'उच्चार'त्ति उच्चारप्रश्रवणभूमयो-द्वादश विण्मूत्रस्थण्डिलानि, तत्रासहिष्णोः पोषधागारस्यान्तः षट् सहिष्णोश्च बहिः षट् जघन्यतोऽप्येकैकहस्तमानानि अधस्त्वङ्गुलचतुष्कमानानि तेषामुपलक्षणत्वान्निष्ठयूतश्लेष्मप्रखेदादिस्थण्डिलानां च विधिः-सम्यक्प्रत्युपेक्षणप्रमार्जनादिरूपस्तत्र प्रमादः, अयमर्थ:-संस्तारकशय्यादौ चक्षुषाऽप्रत्युपेक्षिते । दुष्प्रत्युपेक्षिते चोपवेशनादि कुर्वतः प्रथमोऽतीचारः १, एवं रजोहरणादिनाऽप्रमार्जिते दुष्प्रमार्जिते वा द्वितीयः २, एवमुच्चारप्रश्रवणभूमीनामपि द्वावतीचारौ वाच्यौ, अत उक्तं 'तह चेव'त्ति तथा चैव भवत्यनाभोगोअनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयं ४, तथा 'पौषधविधिवैपरीत्यं' पोषधस्य चतुर्विधस्यापि यथाप्रतिपन्नस्य विधिः-सम्यकपालनं तस्य वैपरीत्यं-अन्यथाकरणमसम्यक्पालनमित्यर्थः यथाऽऽहारादिपोषधे कृते सति क्षुत्तापाद्यार्त्ततया पोषधे पूर्णे खार्थमाहारपाकदेहसत्कारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायतीति पञ्चमोऽतीचारः, यत्सूत्रम्-"अप्पडिलेहिअदुप्पडिलेहिअसिज्जासंथारए १ अप्पमजिअदुप्पमजिअसिज्जासंथारए २ अप्पडिलेहिअदुप्पडिलेहिअउच्चारपासवणभूमी ३ अप्पमजिअदुप्पमजिअउच्चारपासवणभूमी ४ पोसहोववासस्स सम्म अणणुपालणया५" "भोअणाभोए"त्ति पाठान्तरं वातत्र भोजने-आहारे उपलक्षणत्वाद्देहसत्कारादौ चाभोग:उपयोगो भोजनाभोगः, कदा पोषधं पूर्ण भविष्यति येनाहं खेच्छया भोजनादि करिष्ये इत्यादि ध्यायत: पञ्चमोऽतिचारः ५, एषु पञ्चस्खतिचारेषु पोषधविधेपरीये सति, शेष प्राग्वत्, पोषधव्रते च शक्तौ सत्यां Jain Educac ional For Private Personal Use Only NTww.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474