________________
'संथारुच्चारे'ति, संस्तारो-दर्भतृणकम्बलीवस्त्रादिः उपलक्षणत्वात् शय्यापीठफलकादि च 'उच्चार'त्ति उच्चारप्रश्रवणभूमयो-द्वादश विण्मूत्रस्थण्डिलानि, तत्रासहिष्णोः पोषधागारस्यान्तः षट् सहिष्णोश्च बहिः षट् जघन्यतोऽप्येकैकहस्तमानानि अधस्त्वङ्गुलचतुष्कमानानि तेषामुपलक्षणत्वान्निष्ठयूतश्लेष्मप्रखेदादिस्थण्डिलानां च विधिः-सम्यक्प्रत्युपेक्षणप्रमार्जनादिरूपस्तत्र प्रमादः, अयमर्थ:-संस्तारकशय्यादौ चक्षुषाऽप्रत्युपेक्षिते । दुष्प्रत्युपेक्षिते चोपवेशनादि कुर्वतः प्रथमोऽतीचारः १, एवं रजोहरणादिनाऽप्रमार्जिते दुष्प्रमार्जिते वा द्वितीयः २, एवमुच्चारप्रश्रवणभूमीनामपि द्वावतीचारौ वाच्यौ, अत उक्तं 'तह चेव'त्ति तथा चैव भवत्यनाभोगोअनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयं ४, तथा 'पौषधविधिवैपरीत्यं' पोषधस्य चतुर्विधस्यापि यथाप्रतिपन्नस्य विधिः-सम्यकपालनं तस्य वैपरीत्यं-अन्यथाकरणमसम्यक्पालनमित्यर्थः यथाऽऽहारादिपोषधे कृते सति क्षुत्तापाद्यार्त्ततया पोषधे पूर्णे खार्थमाहारपाकदेहसत्कारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायतीति पञ्चमोऽतीचारः, यत्सूत्रम्-"अप्पडिलेहिअदुप्पडिलेहिअसिज्जासंथारए १ अप्पमजिअदुप्पमजिअसिज्जासंथारए २ अप्पडिलेहिअदुप्पडिलेहिअउच्चारपासवणभूमी ३ अप्पमजिअदुप्पमजिअउच्चारपासवणभूमी ४ पोसहोववासस्स सम्म अणणुपालणया५" "भोअणाभोए"त्ति पाठान्तरं वातत्र भोजने-आहारे उपलक्षणत्वाद्देहसत्कारादौ चाभोग:उपयोगो भोजनाभोगः, कदा पोषधं पूर्ण भविष्यति येनाहं खेच्छया भोजनादि करिष्ये इत्यादि ध्यायत: पञ्चमोऽतिचारः ५, एषु पञ्चस्खतिचारेषु पोषधविधेपरीये सति, शेष प्राग्वत्, पोषधव्रते च शक्तौ सत्यां
Jain Educac
ional
For Private
Personal Use Only
NTww.jainelibrary.org