Book Title: Praman Manjari
Author(s): Pattambhiram Shastri
Publisher: Rajasthan Puratattava Mandir

View full book text
Previous | Next

Page 10
________________ ॥श्रीः॥ सम्पादकीयं किञ्चित् अधुना येयं श्रीसर्वदेवसूरिविरचिता प्रमाणमञ्जरी टीकात्रयसमलङ्कृता मुद्राप्य प्रकाशं नीयते, सा केवलमूलसूत्रखरूपा सप्तत्रिंशदधिकैकोनविंशतिशततमे (१९३७ सन्) ईसवीये वर्षे मुम्बय्यां जगति लब्धप्रतिष्ठे निर्णयसागरमुद्रणालये प्रथमं मुद्रिता । साम्प्रतमिमां टीकात्रयेण सह परिष्कृत्य सम्पादयितुं राजस्थानीयपुरातत्त्वमन्दिरप्रवर्तकः पुरातत्त्वाचार्यश्रीमज्जिनविजयमुनिमहोदयैर्नियुक्तोऽहं शोभनेऽस्मिन् कार्य प्रावर्तिषि । ग्रन्थस्यास्य शोभां परिवर्द्धयितुं शुद्धांश्च पाठान् सन्निवेशयितुं नेकविधान्यादर्शपुस्तकानि प्राचीनान्यासादयम् । तत्र - (अ) पुण्यपत्तनस्थाद्विश्रुताद् भाण्डारकरपुस्तकागारात् (Bhandarkar Insti . tute) प्राप्तमेकं हस्तलिखितमतिप्राचीनं पुस्तकम् 'क' संज्ञितम् । (आ) तस्मादेव प्राप्तमन्यत्तादृशं पुस्तकम् 'ख' संज्ञितम् ।। (इ) उपाध्यायपदविभूषितेन साहित्यजैनन्यायाचार्येण श्रीविनयसागरमुनिमहोदयेन दत्तमेकं प्राचीनतमं पुस्तकम् 'ग' संज्ञितम् ।। (ई) तेनैव महोदयेन प्रदत्तमन्यत्पुस्तकं पत्रत्रयात्मकमतिसूक्ष्माक्षरैलिखितं 'घ' संज्ञितम् । (उ) बीकानेरत आसादितमेकं पुस्तकं 'ङ' संज्ञितम् । (ऊ) मुम्बय्यां मुद्रितं पुस्तकमिति मूलपुस्तकानि षट् । (ऋ) पुण्यपत्तनस्थपुस्तकागारादेव प्राप्तं बलभद्रटीकापुस्तकमेकम् 'च' संज्ञितम् । (ऋ) जयपुरस्थपुरातत्त्वमन्दिरसञ्चालकैः श्रीमुनिमहोदयैः प्रत्तमेकं बलभद्रटीका पुस्तकम् 'छ' संज्ञितम् । (ल) पुण्यपत्तनतः प्राप्ते श्रीमदद्वयारण्यटीकापुस्तके द्वे 'ज' 'झ' संज्ञिते । (ए) श्रीविनयसागरमहोदयद्वारा प्राप्तमद्वयारण्यटीकापुस्तकम् 'ट' संज्ञितम् । (ऐ) बीकानेरतो लब्धमद्वयारण्यटीकापुस्तकम् 'ठ' संज्ञितम् । (ओ) पुण्यपत्तनतः प्राप्तमेकं वामनभट्टविरचितटीकापुस्तकमिति सप्त टीकापुस्तकानि । एषु मूलपुस्तकानि सर्वाण्येव प्रायश्शुद्धानि स्पष्टाक्षराणि च । व्याख्यापुस्तकेषु बलभद्रटीकापुस्तकद्वयं प्रायोऽशुद्धम् विषमाक्षरञ्च । अद्वयारण्यपुस्तकानि प्रायश्शुद्धान्येव । वामनभट्टटीकापुस्तकश्चाशुद्धप्रायम् । एवमिमानि पुस्तकान्यवलम्ब्य ग्रन्थोऽयं टीकात्रयोपेतो वैशेषिकनये प्रवि.विथूणां बालानामुपकाराय प्रकाशं नीर

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 120