________________
Jain Education In
|पेक्षा करकण्डादीनां प्रत्येकबुद्धानां बोधिरिति, उपधिः स्वयम्बुद्धानां पात्रादिद्वादशविधस्तद्यथा “ पत्तं १ पत्ताबन्धो २ पायढवणं ३ पायकेसरिया ४ | पडलाइ ५ रयत्ताणं व ६ गोच्छओ ७ पायणिज्जोगो ८ ॥ १ ॥ तिन्नेव य पच्छागा ९ रयहरणं चेव ११ होइ मुहपोत्तित्ति १२ " प्रत्येकबुद्धानां तु जघन्येन रजोहरणमुखपोतिकारूपो द्विविध उ पधिः, उत्कृष्टतः पुनश्चोलपट्टमात्रककल्पत्रिकवर्जों नवविध इति । स्वयम्बुद्धानां पूर्वाधीतश्रुतं संभवति वा न वा, प्रत्येकबुद्धानां पुनस्तन्नियमाद्भवति जघन्येनैकादशाङ्गानि उत्कृष्टतो भिन्नदशपूर्वाणीति । लिङ्गप्रतिपत्तिः स्वयंबुद्धानां यदि पूवधीतश्रुतं नास्ति ततो नियमाद्गुरुसमीपे भवन्ति गच्छे च विहरन्ति, अथ श्रुतं भवति ततो देवता लिङ्गं प्रयच्छति गुरुसमीपे वा तत् प्रतिपद्यन्ते । यदिच एकाकिविहारयोग्यता इच्छा चास्ति तत एकाकिन एव विहरन्ति अन्यथा गच्छ एवासत इति प्रत्येकबुद्धानां पुनर्लिङ्गं देवतैव ददाति लिङ्गवर्जिता वा भवन्ति । भणितं च 'रूप्पं पत्तेयबुद्धत्ति' । बुद्धबोधिता आचार्यादिबोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः ५ त एव प्रत्येकबुद्धवर्जिताः केचित् स्त्रीलिङ्गसिद्धाः ६ केंचित्पुरुषलिङ्गसिद्धाः १ केचित्तु तीर्थकर प्रत्येकबुद्धवर्जिताः नपुंसकलिङ्गसिद्धाः ८ तथा स्वलिङ्गसिद्धाः द्रव्यलिङ्ग प्रतीत्य ये रजोहरणगोच्छकादिधारिणः सिद्धाः ९ अन्यलिङ्गसिद्धाश्चरकपरिव्राजकादिलिङ्गसिद्धाः, यदा अन्यलि| ङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नानां केवलज्ञानमुत्पद्यते तत्समयं च कालं कुर्वन्ति तदैवं द्रष्टव्यं, अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ततः साधुलिङ्गमेव प्रतिपद्यन्त इति १० एवं गृहिलिङ्गसिद्धा अपि मरुदेवीप्रभृतयो घाच्याः ११ तथा एकैकसमये एकैकजीवसिद्धिगमनादेकसिद्धाः १२ एकसमये यादीनामष्टशतान्तानां सेधनाद
For Private & Personal Use Only
lainelibrary.org