Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वृत्तिः
पाक्षिकसू०
र्थस्य सारो निष्पन्दः, महाव्रतानि तीर्थकरैः प्रवचनार्थस्य सारभूतानि कथितानीत्यतो मुमुक्षुणा तेषु महानादरो वि
धेय इतिभावः, ते च भगवन्तस्तीर्थकराः षड्जीवनिकायसंयम षट्सङ्ख्यपृथिव्यादिसत्त्वसमूहरक्षामुपलक्षणत्वान्मृ॥५८॥
पावादादिपरिहारं चोपदिश्य भव्येभ्यः कथयित्वा उपलक्षणत्वात्स्वयं कृत्वा च त्रैलोक्यसत्कृतं लोकत्रयपूजितं स्थानं प्रदेशं सिद्धिक्षेत्रमित्यर्थः अभ्युपगताः संप्राप्ता इत्यनेनापि महाव्रतानामत्यन्तोपादेयतां सूचयतीति। .
अथ महाव्रतोत्कीर्तनापरिसमाप्तौ मङ्गलार्थ प्रत्यासन्नोपकारित्वाद्विशेषतो महावीरस्य स्तुतिमाह| नमो त्थु ते सिद्ध बुद्ध मुत्त नीरय निस्सङ्ग माणमुरण गुणरयणसागर मणन्तमप्पमेय नमो त्यु ते । ६महइमहावीरवद्धमाणसामिस्स नमो त्थु ते भगवओ तिकटु ॥
नमो नमस्कारोऽस्तु, भवतु कस्मै ! ते तुभ्यं हे वर्द्धमानस्वामिन्निति प्रक्रमः, किंविशिष्टः! सिद्ध कृतार्थ बुद्ध केवलज्ञाने-| नावगतसमस्तवस्तुतत्त्व मुक्त पूर्वबद्धकर्मबन्धनैस्त्यक्त नीरज बध्यमानकर्मरहित अथवा नीरय निर्गतौत्सुक्य निःसङ्ग पुत्रकलत्रमित्रधनधान्यहिरण्यसुवर्णादिसकलसंबन्धविकल मानमूरण सर्वगर्वोद्दलन गुणरत्नसागर इति व्यक्तं । तथा अनन्तज्ञानात्मकत्वादनन्तस्तस्यामन्त्रणं अनन्त मकारः प्राकृतशैलीप्रभवः, अप्रमेय प्राकृतज्ञानापरिच्छेद्य, अशरीर जीवस्वरूपस्य छद्मस्थैः परिच्छेत्तुमशक्यत्वादिति । तथा नमो नमस्कारोऽस्तु भवतु, कस्मै! ते तुभ्यं किंविशिष्टेत्याह-महति गरीयसि प्रक्रमात् मोक्षे कृतमते इति गम्यते । पुनरपि किंविशिष्टेत्याह-विशेषेणेरयति मोक्ष प्रति गच्छति गमयति वाटू प्राणिनः, प्रेरयति वा कर्माणि निराकरोति, वीरयति वा रागादिशत्रुन् प्रति पराक्रमत इति वीरः, निरुक्तितो वा वीरः
SANSARALCCAXCLASS
॥५८॥
Jain Educationnation
For Private Personel Use Only
Nw.jainelibrary.org

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170