Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 142
________________ - - पाक्षिकसू० वृत्तिः ADSROCOCCAMACOCOCCASERS विशेषेऽप्ययं विशेषः "जोइसनिमित्तनाणं गणिणो पवावणाइकज्जेसु । उवउज्जइ तिहिकरणादिजाणणठं णहा दोसो"| तथा "विज्जाचरणविणिच्छओत्ति” विद्येति ज्ञानं तच्च दर्शनसहचरितमन्यथा ज्ञानाभावात्, चरणं चारित्रं एतेषां फल-2 विनिश्चयप्रतिपादको ग्रन्थः विद्याचरणविनिश्चय इति । तथा "झाणविभत्तित्ति” ध्यानान्यातध्यानादीनि तेषां विभजनं यस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः । तथा “मरणविभत्तित्ति" मरणानि प्राणत्यागलक्षणानि अनुसमयादीनि वर्तन्ते यथोक्तं "आवीइ १ ओहि २ अन्तिय ३ वलायमरणं ४ वसट्टमरणं च ५। अन्तोसलं ६ तब्भव ७ बालं ८ तह पण्डियं ९ मीसं १० ॥१॥ छउमत्थमरण ११ केवलि १२ वेहाणस १३ गिद्धपट्टमरणं च १४ । मरणं भत्तपरिण्णा १५ इङ्गिणि १६ पाओवगमणं च १७ । २।" तत्रावीचिमरणं आ समन्ताद्वीचय इव वीचयः प्रतिसमयमनुभूयमानायुषोऽपराऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणावस्था यस्मिन् तदावीचिमरणं । अथवा वीचिविच्छेदस्तदभावादवीचिस्तल्लक्षणं मरणमवीचिमरणं । ओहित्ति अवधिमरणं अवधिमर्यादा, ततश्च यानि नारकादिभवनिवन्धनतयायुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनः तान्येवानुभूय मरिष्यति तदा तदवधिमरणं, संभवति हि गृहीतोज्झितानामपि कर्मदलिकांनां पुनर्ग्रहणं परिणामवैचित्र्यादिति । “अन्तियत्ति" आत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते, मृतो वा न पुनस्तान्यनुभूय मरिष्यतीति । बलवन्मरणवशार्तमरणस्वरूपं यथा | "सञ्जमजोगविसन्ना मरन्ति जे तं बलायमरणं तु । ४ । इन्दियविसयवसगया मरन्ति जे तं वसट्टं तु ।५।" अन्तः| शल्यमरणस्वरूपं यथा “लज्जाए गारवेण य बहुसुयमएण वावि दुच्चरियं । जे न कहन्ति गुरूणं नहु ते आराहगा ॥६४॥ Jain Education a l For Private Personel Use Only A M .jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170