Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 151
________________ प्रतिपाद्यन्ते ताः पुष्पिता उच्यन्ते "पुष्फचूलियाओत्ति" पूर्वोक्तार्थविशेषप्रतिपादिकाः पुष्पचूडा इति "वहिदसाओत्ति" वृष्णिरन्धकवृष्णिनराधिपः तद्वक्तव्यताविषया दशा वृष्णिदशा उच्यन्त इति "आसीविसभावणाओत्ति" आस्यो दंष्ट्रास्तासु विषं येषां ते आसीविषास्ते च द्विविधाः जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकसर्पमनुष्यजातयः क्रमेण बहुबहुतरबहुतमातिबहुतमविषाः, वृश्चिकविषं ह्युत्कृष्टतोऽर्द्धभरतक्षेत्रप्रमाणं शरीरं व्याप्नोति, मण्डूकविषं तु भरतक्षेत्रप्रमाणं, भुजङ्गविषं तु जम्बूद्वीपप्रमाणं, मनुष्यविषं तु समयक्षेत्रप्रमाणं वपुर्व्याप्नोति । कर्मतस्तु पञ्चेन्द्रियतिर्यञ्चो मनुष्या देवाश्चासहस्रारादिति । एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आसीविषवृश्चिकभुजङ्गादिसाध्यं कर्म क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीत्यर्थः । देवाश्चापर्याप्तावस्थायां तच्छक्तिमन्तो द्रष्टव्याः । ते हि पूर्व मनुष्यभवे समुपार्जितासीविषलब्धयः सहस्रारान्तदेवेष्व भिनवोत्पन्नाः अपर्याप्तावस्थायां प्राग्भविकासीविषलब्धिमन्तो मन्तव्यास्ततः परं तल्लब्धिनिवृत्तेः अपि देवाः शापादिना परं विनाशयन्ति किं तु लब्धिव्यपदेशस्तदा न प्रवर्तत इत्येवंविधमाशीविषस्वरूपं भाव्यते प्रतिपाद्यते यासु ग्रन्थपद्धतिषु ता आशीविषभावना इति “दिट्ठी-15 विसभावणाओत्ति" दृष्टौ विषं येषां ते दृष्टिविषाः तत्स्वरूपप्रतिपादिका दृष्टिविषभावना इति “चारणभावणाओत्ति" अतिशयबहुगमनागमनस्वरूपाच्चरणाच्चारणाः सातिशयगमनागमनलब्धिसंपन्नाः साधुविशेषास्ते च द्विविधा विद्याचारणाः जङ्घाचारणाश्च, तत्र विद्या विवक्षितः कोप्यागमः तत्प्रधानश्चारणो विद्याचारणः, अस्य च यथाविधिसा-12 तिशयषष्ठलक्षणेन तपसा सर्वदैव तपस्यतो विद्याचारणलब्धिरुत्पद्यते, तया चासौ इत एकेनोत्पातेन मानुषोत्तरपर्वतं Jain Education a l For Private & Personel Use Only Whjainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170