Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SAX***AUSSCHAAR
ज्ञप्तिः । इह चावलिकाप्रविष्टेतरविमानप्रविभजनं यस्यां ग्रन्धपद्धतौ सा विमानप्रविभक्तिः, सा चैका अल्पग्रन्थार्था, तथा-15 ऽन्या महाग्रन्थार्था, अतः क्षुल्लिकाविमानप्र विभक्तिमहती विमानप्रविभक्तिः “अङ्गचूलियत्ति" अङ्गस्याचारादेश्शूलिका यथाचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्ग्रहात्मिका चूलिका । "वग्गचूलियत्ति" इह वर्गोऽध्ययनादिसमूहः यथान्तकृदशास्वष्टौ वर्गा इत्यादि, तस्य चूलिका वर्गचूलिका "विवाहचूलियत्ति” व्याख्या भगवती तस्याश्चूलिका व्याख्याचूलिका "अरुणोववाएत्ति" इहारुणो नाम देवः तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातो, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्त्तयति तदासावरुणो देवः स्वसमयनिबद्धत्वाच्चलितासनः संभ्रमोद्धान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्ट-1 श्चलचपलकुण्डलधरो दिव्यया द्युत्या दिव्यया विभूत्या दिव्यया मत्या यत्रैवासी भगवान् श्रमणस्तत्रैवोपागच्छति। उपागत्य भक्तिभरावनतवदनो विमुक्तवरकुसुमवृष्टिरवपतति । अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा अन्तर्हितः कृताञ्ज-18 लिकः उपयुक्तः संवेगविशुद्ध्यमानाध्यवसायः शृण्वंस्तिष्ठति । समाप्ते च भणति 'सुस्वाध्यायितं सुस्वाध्यायितमिति वरं वृण्विति' ततोऽसाविहलोकनिष्पिपासः समतृणमणिमुक्तालेष्टुकाञ्चनः सिद्धिवधूनिर्भरानुगतचित्तः श्रमणः प्रतिभणति । न मे वरेणार्थ इति, ततोऽसावरुणो देवोऽधिकतरजातसंवेगः प्रदक्षिणां कृत्वा वन्दित्वा नमस्कृत्वा च प्रतिगच्छति । एवं वरुणोपपातगरुडोपपातवैश्रमणोपपातवेलाधरोपपातदेवेन्द्रोपपातेष्वपि वाच्यं । “उहाणसुएत्ति" उत्थानश्रुतमध्ययनं "त पुण सङ्घमाइयकजेसु जस्सेगस्स कुलस्स वा गामस्स वाजाव रायहाणीए वा समणे कयसङ्कप्पे आसुरत्ते अप्पसन्ने अप्पसन्न-17 लेसे विसमासुहासणत्थे उवउत्ते समाणे उहाणसुयमज्झयणं परियट्टेइ एक दोन्नि तिन्नि वा वारे । ताहे से कुले वा गामे
CCCCCAUCCCCCORahe
Jain Education
For Private & Personel Use Only
Saw.jainelibrary.org

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170