Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
ज्ञानाशातनाया उद्भूतं (ज्ञानघ्नं) कर्म्मनिवहं तेषां प्राणिनां क्षपयतु क्षयं नयतु सततमनवरतं, येषां किमित्याह श्रुतमेवातिगम्भीरतया अतिशय रत्नप्रचुरतया च सागरः समुद्रः श्रुतसागरस्तस्मिन् भक्तिर्बहुमानो विनयश्च समस्तीति गम्यते, ननु श्रुतरूपदेवताया उक्तरूपविज्ञापना युक्ता, श्रुतभक्तेः कर्म्मक्षयकारणत्वेन सुप्रतीतत्वात् श्रुताधिष्ठातृदेवतायास्तु व्यन्तरादिप्रकाराया न युक्ता, तस्याः परकर्मक्षयेऽसमर्थत्वादिति । तन्न । श्रुताधिष्ठातृदेवतागोचरशुभप्रणिधानस्यापि स्मर्तुः कर्म्मक्षयहेतुत्वेनाभिहितत्वात् यदुक्तं "सुयदेवयाए जीए संभरणं कम्मखयकरं भणियं । नत्थित्ति अकज्जकरी व एवमासायणा तीएत्ति" किञ्चेदमेव व्याख्यानं कर्तुमुचितं येषां सततं श्रुतसागरे भक्तिस्तेषां श्रुताधिष्ठातृदेवता ज्ञानावरणीयकर्म्मसङ्घातं क्षपयत्वितिवाक्यार्थोपपत्तेः, व्याख्यानान्तरे तु श्रुतरूपदेवता श्रुते भक्तिमतां कर्म्म क्षयपत्विति सम्यग्नोपपद्यते श्रुतस्तुतेः प्राग्बहुशोऽभिहितत्वाच्चेति । ततः स्थितमिदमर्हत्याक्षिकी श्रुतदेवतेह गृह्यते इति ॥ इति पाक्षिकवृत्तिः समाप्ता ॥ सांप्रतं शेषप्रतिक्रमणविधिरुच्यते "तओ उद्घट्ठिय पक्खपडिक्कमणसुत्तकित्तणावसाणे विहिणा निसिइत्ता करेमि भन्ते सामाइयं इत्यादि सर्व्वं निविपडिकमणं कड्डित्ता उद्घट्टिया तस्स धम्मस्स अब्भुट्टिओमित्ति एयमाइयं वन्दामि जिणे चउबीसन्ति आलावगपज्जवसाणं सुत्तं कट्टन्ति, कड्डिए य करेमि भन्ते सामाइयमिच्चाइ काउस्सग्गदण्डगुच्चारणपुरस्सरं उद्घट्टिया चेव मूलुत्तरगुणेसु जं खण्डियं तस्स पायच्छित्तनिमित्तं उस्साससयतिगपरिमाणं काउस्सग्गं करेन्ति, तत्थ वारस उज्जोयगरे चिन्तन्ति, चउमासिए पञ्चसउरसासमाणं उज्जोयगरे वीसं, संवच्छरिए अट्टुत्तरसहस्सुस्सासमाणं उज्जो -
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170