Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ARREARSARKAR ANASSCOST
॥१॥ येच-शुद्धध्यानजलापनीतकलिलाः सज्ज्ञानदीपालया, निःसङ्गवतभारधारणरतास्तीने तपस्युद्यताः । ग्रीष्मे आतपवेदनां गुरुतरां जेतुं सदोपस्थिता, हेमन्तेषु च शार्वरं हिमभरं सोढं सदा निश्चलाः ॥२॥श्रीचन्द्रसूरिनामा तेषांक शिष्यो बभूव गुणराशिः। आनन्दितभव्यजनः संशितसंशुद्धसिद्धान्तः॥३॥ कलिकालदुर्लभानां गुणरत्नाना (लब्धीनां यो) निधानमनवद्यम् । समयावदातबुद्धिस्तथापरो देवचन्द्रगणिः॥४॥ श्रीचन्द्रनामसूरेः पादपङ्कजसेविना । दृब्धयं प्रस्तुता वृत्तिः श्रीयशोदेवसूरिणा ॥५॥ गम्भीरमेतदार्ष न चोहने शक्तिरस्ति मम दक्षा । नापीह संप्रदायः सम्यग्बवश्च पाठगमाः ॥ ६॥ शास्त्रानुसारात्सुखबोधपाठरात्मीयशक्त्या विवृतं तथापि । यच्चेह किञ्चिद्वितथं निबद्धं तत्रास्तु मिथ्या मम दुष्कृतं हि ॥ ७॥ अणहिलपाटकनगरे सौवर्णिकनेमिचन्द्रसत्कायाम् । वरपौषधशालायां राज्ये जय-10 सिंहभूपस्य ॥ ८॥ विशारदैः सूरिवरविहारिभिर्विशोधिता यत्नपरायणैरियम् । तथापि यन्यूनमुताधिकं पदं तच्छोधनीयं कुशलैः कृपापरैः ॥९॥ शुभाशयवशाच्चेह यन्मया सुकृतं कृतम् । तेन भूयान्ममाभ्यासःसर्वदैव जिनागमे ॥ १० ॥ एकादशशतैरधिकरशीत्या विक्रमागतः । द्वे सहस्रे शतैरधिकैः सप्तभिर्ग्रन्थमानतः॥११॥ यावल्लवणसमुद्रो यावन्नक्षत्रम|ण्डितो मेरुः । यावच्चन्द्रादित्यौ तावदिदं पुस्तकं जयतु ॥१२॥ मङ्गलमस्तु ॥ इतिसूरिश्रीयशोदेवकृता पक्खीसूत्रटीका ॥
इदं पुस्तकं मुंबय्यां शाह नगीनभाई घेलाभाई जव्हेरीबजार इत्यनेन निर्णयसागरमुद्रणालये
कोलभाटवीथ्यां २३ तमे गृहे बा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् ।
___Published by Shah Naginbhai Ghelabhai Javeri-Bazar No. 323. Printed by B. R. Ghanekar, at the N. S. Press, 23, Kolbbat Lane, Bombay.
ARRIAGGAGROACACANCE%
माभाशयवशाचह यन्मोधिता यलपरायणारयस्कायाम् । वरपश्चिदिन
Jan Education
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 167 168 169 170