Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 162
________________ पाक्षिकसू० 1148 11 | आहिण्डका इत्यर्थः, वाशब्दाः समुच्चयाथोः, इह स्थाने तेषु मध्ये इति वाक्यशेषो द्रष्टव्यः “राइणियत्ति” रात्रिका भावरत्नव्यवहारिणः बृहत्पर्याया आचार्या इत्यर्थः "पुच्छन्तित्ति" मां प्रश्नयन्ति मया वन्दिताः सन्तो भवतां शरीरकुशलादिवार्त्तामिति गम्यं “ ओमराइणियत्ति” अवमरालिका भवतः प्रतीत्य लघुतरपर्याया आचार्या एव वन्दन्ते भवतः प्रणमन्ति कुशलादि तु प्रश्रयन्त्येव " अज्जया वन्दन्ति " सामान्यसाधवो वन्दन्ते एवमार्यिकादयोपि तथाहमऽपि तान्यथादृष्टसाधून्निः शल्यादिविशेषणो वन्दे, शेषं प्राग्वत्, तथा "अहमवि वन्दावेमि चेइयाइन्ति” तान् यथादृष्टसाध्वादीन् वन्दापयामि चैत्यानि यथा अमुत्र नगरादौ युष्मत्कृते चैत्यानि वन्दितानि तानि च यूयं वन्दध्वमित्येवमिति । एवं शिष्येणोक्तः सन्नाचार्यः प्रत्युत्तरयति यथा मत्थएण वन्दामि अहं पि तेसिंति मस्तकेन वन्देऽहमपि तानिति, ये मम वार्त्तासंप्रच्छनादि कुर्वन्तीतिभावः “अन्ने भणन्ति अहमवि वन्दावेमित्ति” । तत आत्मानं गुरूणां निवेदयन्ति तृतीयक्षामणकसूत्रेण, तच्चेदम् इच्छामि खमासमणो उवडिओमि तुब्भण्हं सन्तियं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अक्खरं वा पयं वा गाहं वा सिलोगं वा अहं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं चियत्तेणं दिन्नं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडंति Jain Educationonal For Private & Personal Use Only वृत्तिः ॥ ७४ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170