Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वृत्तिः
पाक्षिकसू० गच्छति, चैत्यानि च तत्र वन्दते, ततो द्वितीयेनोत्पातेन नन्दीश्वरनामानमष्टमद्वीपं गत्वा चैत्यानि वन्दते, तत एकेनो-13
दत्पातेन प्रतिनिवृत्य यतः स्थानाद्गतः पुनस्तत्रागच्छतीत्येष तावत्तस्य तिर्यग्गतिविषयः । उर्दू त्वित एकेनोत्पातेन नन्द-18 ॥६९॥
नवनं गत्वा तत्र चैत्यानि वन्दते, ततो द्वितीयोत्पातेन मेरुशिखरस्थं पण्डकवनं गत्वा चैत्यानि वन्दते, ततश्चैकनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद्गतः पुनस्तत्रागच्छतीति । लूतातन्तुनिवर्तितपुटकतन्तून्सूरकरान्वा निश्रां कृत्वा (निश्रीकृत्य ) जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः, अस्य च यथाविधि सातिशयाष्टमलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणलब्धिरुत्पद्यते, तया चासौ इत एकेनोत्पातेन त्रयोदशरुचकवरद्वीपं गत्वा तत्र चैत्यानि वन्दते, ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दीश्वरमागत्य तत्र चैत्यानि वन्दते, ततस्तृतीयेनोत्पातेन यतः स्थानाद्गतस्तत्रागच्छतीत्येषोऽस्य तिर्यग्गतिविषयः । ऊर्द्धन्वित एकोत्पातेन पण्डकवनं गत्वा चैत्यानि वन्दते, ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दनवने चैत्यानि वन्दित्वा तृतीयेनोत्पातेन यतः स्थानाद्गतस्तत्रागच्छतीत्यादिचारणस्वरूपं भाव्यते सविस्तरं प्रतिपाद्यते यासु ताश्चारणभावना इति “महासुविणभावणाओत्ति" महास्वप्नानि गजवृषभसिंहादीनि भाव्यन्ते यासु ता महास्वप्नभावना इति “तेयगनिसग्गाणन्ति" तैजसनिसगर्गो वर्ण्यते यासु तास्तैजसनिसर्गा इति। अत्र चाशीविषभावनादिग्रन्थपञ्चकस्वरूपं नामानुसारतो दर्शितं, विशेषसंप्रदायश्च न दृष्ट इति। एतान्यपि षट्त्रिंशदध्ययनान्युपलक्षणभूतानि द्रष्टव्यानि, यतो भगवतो वृषभस्वामिन आदितीर्थकरस्य चतुरशीतिप्रकीर्णकसहस्राणि, तथा मध्यमानामजितादीनां पार्श्वपर्यन्तानां |जिनवराणां सङ्खयेयानि प्रकीर्णकसहस्राणि, यस्य यावन्तः शिष्यास्तस्य तावन्तीत्यर्थः । तथा चतुर्दशप्रकीर्णकसहस्राणि
RRRRRRRRC-R-C-CA-CA
Jain Education in
For Private & Personal Use Only
Mainelibrary.org

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170