SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ - - पाक्षिकसू० वृत्तिः ADSROCOCCAMACOCOCCASERS विशेषेऽप्ययं विशेषः "जोइसनिमित्तनाणं गणिणो पवावणाइकज्जेसु । उवउज्जइ तिहिकरणादिजाणणठं णहा दोसो"| तथा "विज्जाचरणविणिच्छओत्ति” विद्येति ज्ञानं तच्च दर्शनसहचरितमन्यथा ज्ञानाभावात्, चरणं चारित्रं एतेषां फल-2 विनिश्चयप्रतिपादको ग्रन्थः विद्याचरणविनिश्चय इति । तथा "झाणविभत्तित्ति” ध्यानान्यातध्यानादीनि तेषां विभजनं यस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः । तथा “मरणविभत्तित्ति" मरणानि प्राणत्यागलक्षणानि अनुसमयादीनि वर्तन्ते यथोक्तं "आवीइ १ ओहि २ अन्तिय ३ वलायमरणं ४ वसट्टमरणं च ५। अन्तोसलं ६ तब्भव ७ बालं ८ तह पण्डियं ९ मीसं १० ॥१॥ छउमत्थमरण ११ केवलि १२ वेहाणस १३ गिद्धपट्टमरणं च १४ । मरणं भत्तपरिण्णा १५ इङ्गिणि १६ पाओवगमणं च १७ । २।" तत्रावीचिमरणं आ समन्ताद्वीचय इव वीचयः प्रतिसमयमनुभूयमानायुषोऽपराऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणावस्था यस्मिन् तदावीचिमरणं । अथवा वीचिविच्छेदस्तदभावादवीचिस्तल्लक्षणं मरणमवीचिमरणं । ओहित्ति अवधिमरणं अवधिमर्यादा, ततश्च यानि नारकादिभवनिवन्धनतयायुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनः तान्येवानुभूय मरिष्यति तदा तदवधिमरणं, संभवति हि गृहीतोज्झितानामपि कर्मदलिकांनां पुनर्ग्रहणं परिणामवैचित्र्यादिति । “अन्तियत्ति" आत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते, मृतो वा न पुनस्तान्यनुभूय मरिष्यतीति । बलवन्मरणवशार्तमरणस्वरूपं यथा | "सञ्जमजोगविसन्ना मरन्ति जे तं बलायमरणं तु । ४ । इन्दियविसयवसगया मरन्ति जे तं वसट्टं तु ।५।" अन्तः| शल्यमरणस्वरूपं यथा “लज्जाए गारवेण य बहुसुयमएण वावि दुच्चरियं । जे न कहन्ति गुरूणं नहु ते आराहगा ॥६४॥ Jain Education a l For Private Personel Use Only A M .jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy