________________
त्रकर्मोदयसाचिव्यजनितासरिणामविशेषादपश्यन्निव तद्भयमविगणय्य विशिष्टपरलोकक्रियाविमुख एवास्ते सत्त्वः स | खलु प्रमाद इति । भेदा मद्यादयस्तत्कारणत्वादुक्तं च "मजं विसय कसाया निद्दा विगहा य पश्चमी भणिया । एए पञ्च पमाया जीवं पाडन्ति संसारे" । फलविपाको दारुणः उक्तं च "श्रेयो विषमुपभोक्तुं क्षमं भवेत्क्रीडितुं हुताशेन । संसारबन्धनगतैर्नतु प्रमादः क्षमः कर्तुम् । १ । अस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याजन्मान्तरशतानि । २ । यन्न प्रयान्ति पुरुषाः स्वर्ग यच्च प्रयान्ति विनिपातम् । अत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे । ३ । संसारबन्धनगतो जातिजराव्याधिमरणदुःखार्त्तः । यन्नोद्विजते सत्त्वः सोऽप्यपराधःप्रमादस्य । ४ । आज्ञाप्यते यदवशस्तुल्योदरपाणिपादवदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य । ५ । इह हि प्रमत्तमनसः सोन्मादवदनिभृतेन्द्रियाश्चपलाः । यदकृत्यं तत्कृत्वा सततमकार्येष्वभिपतन्ति ।६। तेषामभिपतितानामुद्धान्तानां | प्रमत्तचित्तानाम् । वर्द्धन्त एव दोषा वनतरव इवाम्बुसेकेन ।७। इत्यादि"। प्रतिपक्षद्वारेणाप्रमादस्वरूपादयो वाच्या इति। तथा "पोरिसिमंडलन्ति” पुरुषः शङ्कः शरीरं वा तस्मान्निष्पन्ना पौरुषी । इयमत्र भावना । यदा सर्वस्य वस्तुनः स्वप्रमाणा छाया जायते तदा पौरुषी, इत्येतच्च पौरुषीमानं उत्तरायणान्ते दक्षिणायनादौ वैक दिनं भवति, तत ऊईमङ्गलस्याष्टावेकषष्टिभागा दक्षिणायने वर्द्धन्ते उत्तरायणे च इसन्तीति । एवं पौरुषी मण्डले २ अन्या २ प्रतिपाद्यते तदध्ययनं पौरुषीमण्डलमिति । तथा "मण्डलप्रवेश" इति यत्रेह चन्द्रसूर्ययोईक्षिणोत्तरेषु मण्डलप्रवेशो वर्ण्यते तदध्ययन मण्डलप्रवेश इति । तथा "गणिविज्जत्ति” गुणगणोऽस्यास्तीति गणी स चाचार्यस्तस्य विद्या ज्ञानं गणिविद्या, तत्रा
Jain Education
a
l
For Private & Personel Use Only
W
w.jainelibrary.org